________________
पुत्रकलत्रादिभि; 'सार्धं' सह, संवसति, त एव भार्यापुत्रादयो, ‘ण मिति वाक्यालङ्कारे, ‘एकदेति वृद्धावस्थायां “नियगा" आत्मीया, ये तेन समर्थावस्थायां पूर्वमेव पोषितास्ते तं 'परिवदन्ति' परि-समन्ताद्वदन्तियथाऽयं न म्रियते नाऽपि मञ्चकं ददाति, यदि वा परिवदन्ति' परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्याऽऽत्माऽ[शरीरम]पि तस्यामवस्थायामवगीतो भवतीति, आह च“वलिसंततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? ।।१।।" गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकं-कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहस्तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तञ्चाऽशेषदुःखितबन्धुजनस्वजनमित्रकलत्र-भ्रातृपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप, तेऽपि 'वयमनेनेदृशीमवस्था नीताः सर्वजनाग्रेसरा विहिताः (कृता)' इति स्मृतोपकाराः सन्तः कुलपुत्रतामवलम्बमानाः स्वतः क्वचित्कार्य-व्यासंगात्स्व-भार्याभिस्तमकल्पं वृद्धं प्रत्यजीजागरत् , ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमषणं विहितवत्यस्ततो गच्छत्सु दिवसेषु वर्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरवृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषस्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः, असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विस्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षूणान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहतवत्यः, यत उक्तं“अइतज्जणा न कीरइ, पुत्तकलत्तेसु भित्तमित्तेसु । दहियं पि महिजंतं, चयइ सिणेहं न संदेहो ।।१।।" ततस्ताः सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः
क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपहृते, यदि १. न्यूनतारहितम् ।
१८
वैराग्यशतकम्