________________
व्याख्या - हे आत्मन् ! 'शरीरे' देहे 'क्षणभङ्गुरे' क्षणं क्षणं विशरारुणि, तथा
मनुष्यभवे 'अभ्रपटलसदृक्षे' मेघसमूहसमाने, वायुना शीघ्रमेव यथाऽभ्रवृन्दं विनश्यति, तथाऽयं मनुष्यभवोऽपि देवभवाद्यपेक्षया अल्पकालावस्थायी, अतोऽत्र 'एतावन्मात्र मियत्प्रमाणमेव ‘सारं' न्याय्यंन्यायोपपेतं-युक्तमित्यर्थः, यत् 'शोभनः पञ्चाश्रवाद्विरतिरूपो 'धर्मो' जिनप्रणीतः क्रियते, “सारं तु द्रविणन्याय्यवारिषु" इत्यनेकार्थः ।।३२।।
गाथा - जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य ।
अहो ! दुक्खो हुसंसारो, जत्थ कीसंति पाणिणों ।।।३३।। व्याख्या - अहो । इति जीवसम्बोधने आश्चर्य वा, संसारे पर्यटतां जन्तूनां
तन्नाऽस्ति यदुःखरूपं न, तथाहि-जन्मदुःखं, दुःखहेतुत्वाद्दुःखं, तथा चोक्तं - "सूईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारिसी वेयणा होइ, गब्भे अट्ठगुणा तहा ।।१।। अइविस्सरं रसंतो, जोणीजंताउ कहवि निष्फडइ । माऊइ अप्पणो वि य, वेयणमउलं जणेमाणो ।।२।। जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ।।३।।" तथा 'जरा' वयोहानिर्दुःखं, तथा चोक्तं“थरहरइ जंघजुयलं, झिज्जइ दिट्ठी पणस्सई सई वि । भजइ अंगं वारण होइसिं भो ! विअइ पउरो ।।१।। लोयंमि अणाइज्जो हसणिज्जो होइ सोअणिज्जो उ । चिट्ठइ घरस्स कोणे, पडिओ मंचंमि कासंतो ।।२।। वुड्डत्तर्णमि भज्जा, पुत्ता धूआ य बहुजणो वा वि । जिणदत्तसावगस्स व, पराभवं कुणइ अइदुसहं ।।३।।" तथा चोक्तं श्रीआचाराङ्गे-[लोकविजयाध्ययने प्रथमोद्देशके] "जेहिं वा सद्धिं संवसति ते वि णं एगया नियगा तं पव्विं परिवयंति, सो वा ते नियगे पच्छा परिवएज्जा, नालं ते तव ताणाए सरणाए वा, तुमं पि तेसिं नालं ताणाए वा सरणाए वा"
एतट्टीका-“वा शब्दः पक्षान्तरद्योतकः, आस्तां तावदपरे लोका, यैः १. जंतुणो इत्यपि पाठः ।
१७
वैराग्यशतकम