________________
गाथा - कह आयं कह चलियं, तुमं पि कह आगओ कहं गमिही ।
___ अनुन पि न याणह, जीव ! कुडुंब कओ तुज्झ ? ।।३१।।
व्याख्या - हे जीव !, आत्मन् ! इदं 'कुटुम्बं' मातृपितृभ्रात्रादि कुत आगतं ?,
तथा 'कुत्र चलितं' इतो मृत्वा कुत्र गतं ?, त्वमपि कुत आगतः कुत्र गमिष्यसीति ‘अन्योऽन्यमपि' परस्परमपि युवां 'न जानीथे' न बुध्येथे, यत उक्तं श्रीआचाराङ्गे [शस्त्रपरिज्ञाऽध्ययने प्रथमोद्देशके] "इह मेगेसिं णो सन्ना भवति, तं जहा-पुरच्छिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डाओ वा दिसाओ आगओ अहमंसि, अहो दिसाओ वा आगओ अहमंसि, अन्नयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगिसिं णो नातं भवति-अस्थि मे आया उववाइए, णत्थि में आया उववाइए, के अहं आसी ? केवा इओ चुए इह पेच्चा भविस्सामि ?, से जं पुण जाणेज्जा सहसंमदियाए परवागरणेणं अण्णेसिं वा सोञ्चा" इत्यादि, अतस्तव कुतः कुटुम्बं?, परस्परमपि गमनागमनाद्यनवगमात् ।।३१।।
गाथा - खणभंगुरे शरीरे, मणुअभवे अब्भपडलसारिच्छे ।
सारं इत्तियमेत्तं, जं किरइ सोहणो धम्मो ॥३२।।
१६
वैराग्यशतकम्