________________
गाथा - खणभंगुरं शरीरं, जीवो अन्नो य सासयसरूवो ।
कम्मवसा संबंधो, निब्बंधो इत्थं को तुज्झ ।।३०।।
व्याख्या - हे आत्मन् ! इदं शरीरं 'क्षणभङ्गुरं' क्षणविध्वंसि, यत उक्तं श्रीआचारांगे
[लोकसाराध्ययने द्वितीयोद्देशके] “भेउरधम्मं विद्धंसणधम्म अधुवं अणितयं असासयं चयावचइयं विपरिणामधम्म" मित्यादि, एतट्टीका “अपि चैतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाधुपबंहितं मृण्मयाऽऽमघटादपि निस्सारतरं सर्वथा सदा विशराविति दर्शयन्नाह - “भेउरधम्म" मित्यादि, यदि वा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-“भेउरधम्म” मित्यादि, स्वयमेव भिद्यत इति भिदुरः, स धर्मोऽस्य शरीरस्येति भिदुरधर्ममिदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरउदर-चक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा 'विध्वंसनधर्म' पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यम्भावसम्भावितं त्रियामान्ते सूर्योदयवध्रुवं, न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं, नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं, ततोऽन्यदशाश्वतं, तथेष्टाहारोपभो गतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाञ्चयस्तद भावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तञ्चयापचयिकं, अत एव विविधः 'परिणामो' अन्यथाभावात्मको धर्मः' स्वभावो यस्य तद्विपरिणामधर्म" [इति सिद्ध० सा० प्र० स० मुद्रिते १८७ पत्रे), यतश्चैवम्भूतमिदं शरीरकं, तथा 'शाश्वतस्वरूपो' अप्रच्युतानु-त्पन्नस्वरूपो 'जीव' आत्मा 'अन्यः' शरीराद् भिन्नस्तदपगमे तदनपगमात्, तर्हि परस्परं विभेदे अनयोः शरीरात्मनोः परस्परं सम्बन्धः, कथं ? इत्याह - 'कर्मवशात्' कर्मपरतन्त्रतयाऽनयोः ‘सम्बन्धः' संयोगः, अतस्तवाऽस्मिन् शरीरे को 'निर्बन्धः' अनुबन्धः-का मूर्छा ?, उक्तं च- "मंसऽट्ठिरुहिरण्हारूवणद्धकलमलयमेयमज्जासु । पुण्णमि चम्मकोसे, दुग्गंधे असुइबीभच्छे ।। १ ।। संचारिमजंतगलंतवञ्चमुत्तंतसययपुण्णंमि । देहे होज्जा ? किं रागकारणं असुइहेउम्मि ।।२।।” अतः शरीरेऽनुबन्धं परित्यज्य किञ्चिद्धमें उद्यम कुर्विति भावः ।।३०।।
१५
वैराग्यशतकम्