________________
गाथा
व्याख्या
व्याख्या
1
१४
-
किञ्चिदिष्टमनिष्टं वा कृतं स्यात्तदा तव तयोरुपरि रागद्वेषकरणमुचितं स्यात् परं स्वात्मैव सर्वं करोतीति, तथा चोक्तं श्रीउत्तराध्ययनेषु
"
'अप्पा नई वेयरणी, अप्पा मे कूडसामली ।
अप्पा कामदुहा धेणु, अप्पा मे नंदणं वणं ।।१।।
अप्पा कत्ता विकत्ता य, दुक्खाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिओ ।।२ ।। " ।।२७।। बहुआरंभविढत्तं वित्तं विलसंति जीव ! सयणगणा । तज्जणियपावकम्मं, अणुभवसि पुणो तुमं चेव ।।२८।।
गाथा - अह दुक्खियाईं तह भु-क्खियाईं, जह चिंतियाईं डिंभाई । तह थोवं पिन अप्पा, विचिंतिओ जीव ! किं भणिमो । । २९ ।।
हे 'जीव !' आत्मन् !, त्वया 'बहुना आरम्भेण' कृष्यादिरूपेण, “विढत्तं” उपार्जितं ‘वित्तं' धनं 'स्वजनगणाः' पितृमातृभ्रातृपुत्रादयो ‘विलसन्ति' अनुभवन्ति-तत्फलभोक्तारो भवन्तीति भावः तेन आरम्भेण 'जनितं' उत्पादितं 'पापं' अशुभप्रकृतिरूपं 'कर्म' ज्ञानावरणीयादि, त्वमेव एककः पुनर्नरकादौ, आर्षवचनत्वाद्, “वर्तमानसामीप्ये वर्तमानवद्वे 'ति वचनाद्वा भविष्यति वर्तमाना[ देशः], 'अनुभविष्यसि' तत्फलस्वादं लप्स्यसे इत्यर्थः ।। २८ ।।
-
,
हे आत्मन् ! त्वया यथा मोहवशगेन 'डिम्भा' बाला अथ 'दुःखिताः' शीतत्राणाद्यभावेन पीडिता वर्तन्ते, तथा 'बुभुक्षिताः' क्षुधिता वर्तन्त इति 'चिन्तिता' अहर्निशं तच्चिन्ताकुलिततया विचारिताः परं हे जीव ! त्वया 'स्तोकमपि' अल्पमपि 'आत्माऽकृतपुण्यः परलोके कथं भविष्यतीत्येवं' न विचिन्तितोऽतस्त्वां किं भणामः' किं वच्मः ?, योग्यस्यैवोपदेशार्हत्वात्, त्वं च परार्थचिन्तको जातो, न स्वार्थचिन्तक, इत्यतो मूर्खः “स्वार्थभ्रंशो हि मूर्खते" ति वचनात्.
।।२९ ।।
वैराग्यशतकम्