SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ व्याख्या : ही इति विषादे विस्मये वा ‘शतकृत्वोप्यधीयाना ही न विद्मो जडा वयम्' 'हतविधिललितानां ही विचित्रो विपाकः' इति विधिना ब्रह्मणा महिलारूपेण वनिताकारेण संसारे 'जालमानायो मत्स्यबन्धनं, मण्डितं विभक्तं रचितम्, यथा जालेन मत्स्या बध्यन्ते तथा स्त्रिया पुरुषा इति । 'रूपं तु श्लोकशब्दयोः पशावाकारे (२-३०१) इत्याद्येनकार्थः, यथा मनुष्यरूपेण मृगाश्चरन्तीति । यत्र स्त्रीरूपजाले मनुजास्तिर्यश्चः सुरा असुराश्च बध्यन्ते नियन्त्र्यन्ते ।।१०।। गाथा : विसमा विसयभुअंगा, जेहिं डसिया जिआ भववर्णमि । कीसंति दुहग्गीहि, चुलसीई जोणिलक्खेसु ।।११।। व्याख्या : विषमा विषयभुजङ्गा यैर्विषयभुजङ्गैर्दष्टा भक्षिता जीवा भववने दुःखाग्निभिः क्लिश्यन्ति दुर्मनीभवन्ति । क्व ? चतुरशीतियोनिलक्षेषु, तान्यमूनि - पृथ्व्यप्तेजोवायुकानां प्रत्येकं सप्तसप्तयोनीनां लक्षा भवन्ति, एवं प्रत्येकवनस्पतिकायस्य दश, अनन्तवनस्पतिकायस्य चतुर्दश, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं द्वे द्वे, सुराणां नारकाणां पञ्चेन्द्रियतिरश्चां च प्रत्येकं चतस्रः चतस्रः, नराणां चतुर्दश, एवं सर्वमीलने चतुरशीतियोनिलक्षा भवन्ति ।।९१।। । गाथा : संसारचारगिम्हे, विसयकुवाएहि लुक्किया जीवा । हिअमहिअं अमुणंताऽणुहवंति अणंतदुक्खाई ।।१२।। व्याख्या : संसार एव चारः कारागृहं स एव ग्रीष्म आतपस्तस्मिन्, विषयैरेव कुवातैरुष्णत्वातिशयात्सन्तापजनकैः कुमारुतैलूंकिता लूका मरुदेशप्रसिद्धो ग्रीष्मवातस्तां प्राप्ता लूकिताः, हितं सुखकारि, अहितं दुःखजनकं, तदजानन्तोऽबुध्यमाना अनन्तदुःखान्यनुभवन्ति आस्वादयन्ति । यथा ग्रीष्मे १. जालमनाय ख । २. दुहअग्गीहिं इव ड.ड, । ३. विसय कुवाएण मुद्रिते । १६० इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy