________________
प्राप्ताः, यतः“मातापितृसहस्राणि, पुत्रदारशतानि च । युगे युगे व्यतीतानि, मोहस्तेषु न युज्यते ।।१।।" अयुक्तत्वं च "दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ?, ये रिपवस्तेषु सुहृदाशा ।।२।।" “ता" इति तस्मात्कारणात् यद्यात्मानं सुखिनं भवन्तं जानासि तदा तदृद्धिस्वजनसम्बन्धेभ्यो ‘विरमस्व' निवर्तस्व, विरतेः सुखकारणत्वादिति
।।२५।।
गाथा - एगो बंधइ कम्मं, एगो वहबंधमरणवसणाई ।
विसहइ भवंमि भमडइ, एगुच्चिय कम्मवेलविओ ।।२६।।
व्याख्या - ‘एक एव' असहाय एव जीवः 'कर्म' ज्ञानावरणीयादि, ‘बघ्नाति' आत्मना
सह संश्लिष्टं करोति, तथा एक एव भवान्तरे वध'स्ताडनं, ‘बन्धो' रज्ज्वादिना संयमनं, 'मरणं' प्राणच्यवनं, 'व्यसनं' आपत्, ततो वधश्च बन्धश्च मरणं च व्यसनं च, तानि 'विषहते' अनुभवति, वधबन्धादिकं नरकादौ प्राप्नोतीत्यर्थः, तथा एक एव कर्मभि“वेलविओ" त्ति वञ्चितःपुण्यकरणाद्विप्रलब्धः सन् भवे'
संसारे भ्रमति, वञ्चेर्वेलवादेशो भवति ।।२६।। गाथा - अनो न कुणइ अहियं, हियं पि अप्पा करेइ न हु अन्नो ।
अप्पकयं सुहदुक्खं, भुंजसि ता कीस दीणमुहो ? ।।२७।।
व्याख्या - हे प्राणिन् ! 'अहितं' अनिष्टं वधबन्धादिकं अन्यः कोऽपि न कुरुते,
यथाऽनेनाऽहं ताडित इत्यादि परकृतं मा चिन्तयेति भावः, तथा ‘हितमपि' इष्टमप्यात्मनः सुखकारणकदम्बकं आत्मैव करोति, 'हुनिश्चये, नैव ‘अन्यः' परः करोति, “ता" इति तत, 'आत्मकृतं' आत्मना शुभाशुभकर्मप्रेरितेन ‘कृतं' विहितं, सुखदुःखं 'भुनक्षि' अनुभवसि, ततः कस्माद् ‘दीनमुखो' विच्छायवदनः ?, यदि परेण
१३
वैराग्यशतकम्