________________
असंयममार्गे यत्प्रवर्तयसीत्यर्थः । यद्वा पञ्चेन्द्रियविषयप्रसङ्गार्थं मनोवचःकायान् यन्न संवृणोषीति योगः । अपभ्रंशे तादये द्योत्ये रेसीति निपातः यदुक्तं प्राकृते शब्दानुशासने तादर्थ्य केहिते हिरेसि रेसिंताणे णा (सि० ८-४-४२५) इति । तथा यदष्टकर्माणि ज्ञानावरणीयादीनि, अपिरवधारणार्थः । नैव निर्जरयसि यन्न मूलत उन्मूलयसीत्यर्थः । तत् त्वं गलपदे= स्वीयनिगरणप्रदेशे, कर्तरी कृपाणी वाहयसि, गलकन्दले. कृपाणी च्छेदनाय ददासीत्यर्थः ।।७४ ।।
गाथा : किं तुमंधोसि किं वासि धत्तूरिओ,
अहव किं संनिवाएणआऊरिओ । अमयसमधम्मु जं विसं व अवमनसे,
विसयविसविसमअमयं व बहुमत्रसे ।।७५।। व्याख्या : रे आत्मन् तत् किं त्वमन्धोसि गताऽक्षोऽसि ? वा=अथवा, किं त्वं
धत्तूरितोऽसि* ? भक्षितमातुलपुत्रकबीजोऽसि ? अथवा सन्निपातेन = वातपित्तश्लेष्मणामेकत्रावस्थानं सन्निपातस्तेन किं आपूरितो व्याप्तोऽसि सन्निपातितो वर्तसे ? इत्यर्थः । यत् त्वं अमृतसमं पीयूषपानोपमं धर्म विषयनिवृत्तिरूपं विषमिव अवमन्यसे अवहेलयसि यथा विषमवगण्यते, तथा धर्ममपि सुधातुल्यं अवगणयसीत्यर्थः । तथा विषमं दुःसहं संयमजीवितव्यपरोपणाद्विषयविषं अमृतमिव बहु मन्यसे बहुमानयसि, अत्र ते अतत्त्वबुद्धिविलसितमेव बीजम्, भ्रान्तो हि सत् असदिव जानीते, असत् सदिव ।।७५।।
१. विसव मुद्रिते । २. अमियं व मुद्रिते । 3. मन्यते खडड ड । ** कदल्युपमे गले इत्यर्थः ।
१५२ इन्द्रियपराजयशतकम्