SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ मया पूर्वमिदानीं च धिगाचीर्णमनीदृशम् । यद्वाऽवस्थावशात्पुंसां लघुता गुरुतापि च ।।३३।। तस्मादेषैव बन्धुर्मे गुरुर्वापि न संशयः ।। उद्धृतोऽहं महासत्या यया नरककूपतः ।।३४ ।। भावयित्वेति पुण्यात्मा श्रीमन्नेमिपदान्तिके । गत्वा दुश्चीर्णमालोच्य तपस्यां 'गाढमग्रहीत् ।।३५ ।। चतुर्वर्षशतप्रान्ते छाद्मस्थ्यं वर्षमेककम् । प्रपाल्य केवली जातः पञ्चवर्षशतानि सः ।।३६।। वर्षाधिका नवशतीं शरदामखिलायुषः । प्रपूर्य सर्व्वशुद्धात्मा रथनेमिः शिवं ययौ ।।३७ ।। अहो दौरात्म्यमेतेषां विषयाणामनुत्तरम् । यैरसौ चरमात्मापि चक्रे निजवंशवदः ।।३८ ।। इति श्रीरथनेमिकथा ।।६९।। गाथा : मयणपवणेण, जइ तारिसा वि सुरसेलनिचला चलिआ । ता पक्क-पत्त-सत्ताण, इयर-सत्ताण का वत्ता ? ।।७०।। व्याख्या : मदनपवनेन कन्दर्पवातेन यदि सुरशैलनिश्चला मेरुधीरास्तादृशा अपि श्रीआईकनन्दिषेणरथनेमिप्रभृतयोपि महामुनयश्चलिताश्चञ्चलचित्ता जातास्तदा पक्वपत्रसदृशानामपि हीनसत्त्वानां सामान्यप्राणिनां का वार्ता ? न कापीत्यर्थः ।।७।। गाथा : जिप्पंति सुहेणं चिय, हरि-करि-सप्पाइणो महाकूरा । इक्कुञ्चिय दुजेओ, कामो कय-सिवसुहविरामो ।।७१।। व्याख्या : महाक्रूरा दुष्टाऽध्यवसायाः हरिकरिसर्पादयः सिंहहस्तिभुजङ्गमप्रभृतयो जीवाः सुखेनैव जीयन्ते तत्तदुपायैः पुरुषैर्वशीकृत्य दम्यन्ते परं कृतशिवसुखविरामो दलितमोक्षः, अत एव कामो मन्मथो दुर्जेयः जेतुमशक्यः, उक्तं च,मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः । १. गाढमब्रवीत् ड, । २. बलात्कारेणेत्यर्थेऽव्यमिदम् । १४९ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy