SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ भुक्ष्वेदम्, किमहं श्वानो भुओ यद्वान्तमार्त्तवत् । भ्रात्रा त्यक्तां कथं तर्हि मामुपभोक्तुमर्हसि ।।५।। को नाम गजमुज्झित्वा रासभं बहुमन्यते । को वा रत्नमनादृत्य काचेऽपि कुरुते मतिम् ।।६।। भ्रातृस्नेहानुगाम्येष इति प्राभृतमाददे । जन्मान्तरेपि नो भूयाद्वरो मे 'नेमितः परः ।।७।। उत्पन्ने केवलज्ञाने स्वामिनोऽथ पतिव्रता । उपादाय व्रतं राजीमती जज्ञे महत्तरा ।।८।। विहरन्नन्यदा स्वामी रैवते समवासरत् । ययुः सान्तःपुरास्तत्र कृष्णाद्या वन्दितुं प्रभुम् ।।९।। श्रृत्वा संसारवैराग्यजननीं धर्मदेशनाम् । रथनेमिरुपादत्त चारित्रं श्रीजिनान्तिके ।।१०।। राजीमत्यन्तिके स्त्रैणं* स्वस्य दीक्षामपालयत् । उत्तमार्थविधेयेषु शिथिलाः कृतिनः किमु ।।११।। अन्यदा नेमिनं नत्वा रथनेमिः पथि व्रजन् । बाधितो वृष्टिकायेन प्राविशत्कन्दरां गिरेः ।।१२।। राजीमत्यपि मेघाम्बुबाधिता तद्गुहान्तरे । रथनेमिमजानाना तत्रस्थं प्राविशत्तदा ।।१३।। तमदृष्ट्वा तमिस्रेण श्रोणिनिहितचक्षुषम् । वस्त्राणि परितोऽक्षप्सीदुद्वानाय महासती ।।१४ ।। स्वर्गलोकजयायेव साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वीं बभूवोत्कलिकाकुलः ।।१५।। पिण्डितं सृष्टि'सर्वस्वमिवासौ हा मृगेक्षणा । नैकशोपि मया भुक्ता धिग्मे जन्मनिरर्थकम् ।।१६।। भ्रातुर्वैरादिवाजघ्ने तथा कामेन मर्मसु । यथा विवशितस्वान्तः स्वात्मानमपि नाऽस्मरत् ।।१७।। ईषत्कम्प्रवपुर्भृत्य इवोत्थाय विसंस्थुलः । रथनेमिः पुरस्तस्यास्तस्थावुत्तानितेक्षणः ।।१८।। १. नेमिनः ड। २. सर्वस्वामिवासौ ड। * स्त्रैणं = स्त्रीणां समूहः । kkkkkkkkkkkkkkkkkkkkkkkkkk १४७ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy