SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १. द्वारे ड । कदाचिदभिधां श्रुत्वा माऽस्मरन्मां नरेश्वरः । लीलावतीत्यतो नाम बभाराऽपरमात्मनः ।। ।।४१।। कलपञ्चमकाकल्पा गीतान्यादि - जिनेशितुः । सौधाग्रभागमारूढः शुश्रुवे पार्थिवोऽन्यदा ।।४२।। सामान्यराजपुत्रस्य वेषमाधाय भूमिभृत् । तत्रैत्य पश्चिमद्वारों वीक्षते प्रेक्षणीयकम् ।। ।।४३।। नृत्यन्त्या नृपतिर्नेत्रक्षुरप्रेण तथा हतः । लीलावत्या यथा स्थानादुत्थातुमपि नाऽस्मरत् ।। ।।४४।। सुखासनेन सङ्गीतानन्तरङ्गतया तया । राजापि तद्गृहेऽनैषीत्क्षणदां क्षणिकामिव ।। ४५ ।। एवं प्रतिदिनं तत्र प्रेक्षते प्रेक्षणक्षणम् । रात्रिं नयति तत्रैव सत्रागारे मनोभुवः ।। ।। ४६ ।। यद्यद्विचेष्टते तत्र राजा सा तत् पितुः पुरः । ज्ञापयत्यखिलं सोऽपि लिलेख वहिकापटे ।। ।।४७।। अन्यदोपानहौ मुक्त्वा सा रुरोह सुखासने । उपानद्वाहिनी नास्ति तदेते त्वमुदाऽऽनय ।। ।।४८।। तेनापि शिरसाऽऽदाय समानीते तदङ्गणे । तथैव च निशीथिन्यां नर्त्तकी तमसूषुपत् ।। ।।४९।। अन्यदोक्तं तया स्वामिन् मत्पादौ दह्यतस्तमाम् । उत्थापय सखीं येन तलहस्तयतिक्षणम् ।। ।। ५० ।। तृतीयजनसञ्चारमसहिष्णुः स्वयं नृपः । तथा व्यश्रामयत्पादौ निदद्रौ सा यथासुखम् ।। ।।५१।। सम्पूर्णचन्द्रं सा प्रविशन्तं निजाऽऽनने । दृष्ट्वा जागरिताऽपश्यत्संवाहनपरं नृपम् ।। ।। ५२ ।। निवार्य सहसोत्थाय तस्याऽग्रे स्वप्नमाख्यत । नोक्तं तनयो भावी भद्रे सर्वोत्तमस्तव ।। ।।५३।। रात्रेर्विरामसंसूची शङ्खो दध्वान तावता । उत्थाय सत्वरं राजा जगाम निजमन्दिरम् ।।५४ ॥ धर्म्मध्यानं दधाना सा रजनीमत्यवाहयत् । उदिते भास्वति प्रातः प्राप सा जनकाऽऽलयम् ।।५५।। १४४ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy