________________
न प्रत्येति नृपश्चेत्तद्वीक्षतां वहिकां निजाम् । यत्कीरद्वन्द्वपुत्रस्य विवादे लिखितं स्वयम् ।। !!२६ !! तथैव तद्विलोक्याऽथ वहिकायां महीभुजा । विस्मयापनचित्तेन सा ज्ञाता बालपण्डिता ।। ।।२७।। दिनैः कैश्चिदतिक्रान्तै रिपुमर्दनभूपतिः । सामर्षो भुवनानन्दां परिणीयेदमादिशत् ।। ।।२८।। पण्डिताऽसि प्रिये तावन्नागन्तव्यं गृहे मम । सर्व्वलक्षणयुक् यावज्जातो भवति नो सुतः ।। ।।२९ ।। ईषत्स्मित्वा तयाऽप्युक्तं पुत्रे जाते ध्रुवं ह्यहम् ।। स्वामिंस्त्वद्नेहमेष्यामि किन्त्वेदमपरं शृणु ।। ।।३०।। तदाऽहं कापि चेत्त्वत्तो धावयामि निजौ पदौ । वाहयामि भवन्तं च स्वकीयोपानहाविति ।। ।।३१।। इति प्रतिज्ञामासूत्र्य गता निजपितुर्गृहे । कथयामास चैकान्ते वृत्तान्तं मन्त्रिणः पुरः ।। ।।३२।। वत्से ! कथमिदं याति दुर्घटं घटनापदम् । तात ! किं सुप्रयुक्ताया असाध्यं विद्यते मतेः ।। ।।३३।। यदुक्तं नीतौ - एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्ति राष्ट्र सराजकम् ।। ।।३४ ।। मन्त्रिणाऽभाणि नो बुद्धया न दानैर्न च पौरुषैः । विधातुं शक्यते कार्यं मुक्त्वा दैवबलं परम् ।।३५ ।। भुवनानन्दया प्रोक्तमित्यमेव न संशयः । साऽपि कर्मवशाद् बुद्धिः प्राणिनामिह जायते ।। ।।३६ ।। परं तात ! नृपावासप्रत्यासन्नमहीतले । श्रीमन्नाभेयदेवस्य भवनं गुरु कार्यताम् ।। ।।३७ ।। शुभगा गीतवादित्रगीतैस्तत्र यथाङ्गनाः । सङ्गीतं कुर्वते तास्तत्रिकालं कार्यतां तथा ।। ।।३८ ।। अन्तर्विलासिनी गेहं कार्यतां मद्गृहं पुनः । तदुक्तं कारयामास मन्त्री मन्त्रमहोदधिः ।। ।।३९।। वाद्यमानैरथाऽऽतोद्यैर्गीयमानैश्च गीतकैः ।
ननर्त स्फारशृङ्गारा तत्र मन्त्रिसुता स्वयम् ।। ।।४०।। Kakkkkkkkkkkkkkkkkkkkkkkk १४३ इन्द्रियपराजयशतकम्