________________
देवाद्य वर्ध्यसे दिष्ट्या, प्रियायाः शुद्धिलब्धितः । पृच्छति क्षितिपो मोदात्स गीर्वाणगिरागृणोत् ।। ।। २७।। देव ! शक्रसभामध्यमध्यासीना तव प्रिया । मनीषितसुखैः पोषं धत्ते मत्तेभगामिनी ।। ।। २८ ।। त्वद्दर्शनमृते किन्तु ताम्यन्ती त्वामथाख्यत । तवापि तत्रावस्थातुं, मर्त्यलोके न युज्यते ।। ।।२९।। येनाधिव्याधिदौर्गन्ध्यबाधाभिः पिच्छिलो ह्ययम् । स्वर्गः सर्व्वेन्द्रियप्रीतिस्फातिकृद्भोगभासुरः ।। ।।३०।। तत्राथ चेन्मया कार्यं शीघ्रमत्र समेहि तत् । स्वाधीने नन्दने विद्वान् को नाम रमते मरौ ।। ।। ३१।। भो भो मन्त्रिजनाः शीघ्रं दर्श्यतां स्वर्गवर्त्म मे ।
येन गच्छामि पश्यामि प्रियाया वदनाम्बुजम् ।। ३२ ।। विधेहि भोजनं देव स्नानपानादिकं कुरु । साम्राज्यराज्यकोशादि' स्मर पुण्यं च साधय ।। ।।३३।। यावद्वदामि गत्वाऽहं तत्र यौष्माकमागमम् । इति तद्वचसा राजा भोजनादिकमाचरत् ।। ।।३४।। यतः निर्बुद्धी' रङ्को वा सुबुद्धिर्यदि वा नृपः । अलीकमपि रागेण वेत्ति सत्यतया पुमान् ।। ।। ३५ ।। चिरेण पुनरागत्य स पुमान्नृपतेः पुरः । नागरङ्गकलान्युच्चैरपूर्वाज्युपदामधात् ।। ३६ ।। देवीप्रहितकल्पद्रुफलानीमानि स ब्रुवन् । ययाचे तद्द्विरा भूपं, सर्व्वाङ्गाभरणानि च ।। ।। ३७ ।। दत्त्वास्मैतानि भूपस्य पश्यतो मङ्क्षु मन्त्रिणः । प्रच्छन्नं स्थापयामासुः कतिचिद्वासरानमुम् ।। ३८ ।। अतीतैर्वासरैः कैश्चिदेति याति मुहुर्मुहुः । कश्चिद्धूर्त्तनरोऽज्ञासीदमुं वृत्तान्तमन्यदा ।। ।।३९।। भूर्जपत्रमिव श्लक्ष्णं हेमपत्रं विधाय सः । मृगनाभिरसैर्बभ्रे तत्रोत्कीर्याक्षरावलीम् ।। ।।४०।। १. कोशादेः ड, कोशादिः खड । २ निर्बुद्धिर्वा रङ्को खड्ड ।
१३८ इन्द्रियपराजयशतकम्