________________
पिपासुर्जलमासाद्य किं सुधार्थमुदीक्षते । तथा रामानुरक्तः किमन्यकार्येऽनुरज्यते ।।१२।। किन्तु यावन्मृगाक्षीयं वर्त्तते नेत्रगोचरे । तावजानीहि मे जीवं न कार्यं राजचिन्तया ।।१३।। इत्थं भूमिपतिं मत्वा राज्यचिन्ताबहिर्मुखम् । यावत्किमपि सम्भूय सूत्रयन्ति परस्परम् ।।१४।। तावत्प्राभातिकी वान्तिं प्राप सा नृपवल्लभा । आहूताश्च ततो राज्ञा संरम्भेण चिकित्सकाः ।।१५।। प्रतिक्रियाभिरत्यर्थं यावतोपचरन्ति ते । तावद्भानूदये जाते सहसा मृत्युमाप सा ।।१६।। राजा तत्कालमुन्मील्य मूर्छाविह्वलविग्रहः । पपात धरणीपीठे काष्ठवद्गतचेतनः ।।१७।। चान्दनैः सलिलैः सिक्तस्तालवृन्तैश्च वीजितः । प्राप्य चैतन्यमस्तन्य इव बालो रुरोद सः ।।१८।। क्व गताऽसि प्रिये देहि प्रतिवाचं ममोचिताम् । एवंविधमहं हास्यं न चिरं सोढुमीश्वरः ।।१९।। इत्यादिलपतस्तस्य तस्याः पार्श्वममुञ्चतः ।। देव ! तावन्मृतैवेयं संस्कारः कार्यतामतः ।।२०।। नृपतिः कुपितोऽवादीत्कोऽयं दौरात्म्यभाजनम् । तक्ष्णोति कटुकैर्वणैः 'कर्णी टङ्किकयेव मे ।।२१।। रे रे संस्कार्यतां पापाः स्वपुत्रप्रमुखो जनः । मम प्राणप्रिया त्वेषा जीविष्यति शतंसमाः ।। ।।२२।। तस्माद्वाक्यममाङ्गल्यं यो वक्ष्यति स मे रिपुः । इत्युपेक्ष्य नृपं गुप्तः संस्कारोऽस्या विनिर्ममे ।। ।।२३।। विशिष्य तामथापश्यंस्तदद्वैतनिमग्नधीः । निरुद्धेन्द्रियसञ्चारो योगात्मेवाभवन्नृपः ।। ।।२४।। यावनोपलभे प्राणप्रियायाः शुद्धिमुत्तराम् । तावन्न भोजनं कुद्धे प्रत्यज्ञासीदिदं नृपः ।।२५।। भोजनत्यागिनो राज्ञोऽतिक्रान्ता दश वासराः ।
मन्त्रिभिः शिक्षयित्वेति प्रेषि कोऽपि नृपान्तिके ।। ।।२६।। १. र्बाणैः ख
१३७ इन्द्रियपराजयशतकम्