________________
गाथा : वुत्तूण वि जीवाणं, सुदुक्कराइं ति पावचरियाई ।
भयवं जा सा सा सा, पच्चाएसो हु इणमो ते ।।५८।। व्याख्या : वक्तुमपि, जीवानां सुदुष्कराणि सुष्ठु दुःशक्यानि इत्येवं पापचरितानि
दुष्टचेष्टितानि भगवन् या सा सा सेत्यनेन दृष्टान्तं सूचयन् शिष्यं प्रत्याह 'प्रत्यादेशो दृष्टान्तो, हुः पूरणार्थोऽयमेवंभूतस्ते तव अतः पापचरितानि न कथञ्चित्कार्याणीत्यभिप्रायः । कथानकमधुना-महावीरस्य भगवतः समवसरणे भिल्लः कश्चिन्मनसा पृच्छति स्म । भगवानाह भद्र वाचा पृच्छ । स प्राह भगवन् या सा सा सेति ? भगवतोक्तं भद्र ! या सा सा सेति । गतो भिल्लः । ततो गौतमो लोकप्रबोधनार्थमाह - किमनेन पृष्टम् ? किं वा भट्टारकैः कथितम् ? । ततो भगवांस्तद्वृत्तान्तमाचचक्षे-वसन्तपुरेऽनङ्गसेननामा सुवर्णकारः स्त्रीलोलुपतया ईप्सितदानप्रदानेन निजरूपोपहसितामरसुन्दरीणां तरुणस्त्रीणां पञ्चशतानि पत्नीनां मीलयित्वापरतया प्रासादे निधाय रक्षन्नास्ते स्म । न च स्वपरिभोगवतीं विहायान्यासां संस्कारं कर्तुं ददावन्यदाऽनिच्छन्नीतो मित्रेण प्रकरणेऽवसरोयमिति कृत्वा कृतस्नानविलेपनाभरणनेपथ्या हस्तन्यस्तदर्पणाः क्रीडितुमारब्धाः पत्न्यः । समायातोऽसौ गतः कोपं गृहीत्वैका हता 'मर्मसु वियुक्ताऽसुभिश्चिन्तितमन्याभिरस्माकमप्येवं करिष्यति । भयेन मुक्ता युगपदादर्शकास्तस्योपरि मृतश्च । मृते च तस्मिन् सञ्जातः पश्चात्तापो नाऽन्या गतिः पतिमारिकाणामिति सञ्चिन्त्य प्रविष्टा ज्वलने । सामुदायिककर्मवशादेकत्र पल्लयां सञ्जाताश्चौरतयेति । प्रथमहतपत्नीजीवस्तु क्वचिद् ग्रामे जातो दारकः । सुवर्णकारस्तिर्यग्योनिषु पर्यट्य समुत्पन्नस्तद्भगिनीभावे । पूर्वभववासनावेधादतिमोहोत्कटतया रोदिति सा प्रतिक्षणम्, स्पृष्टा कथंचिदावाच्यदेशे दारकेण, तूष्णीं स्थिता, अयमुपाय इति पुनः पुनः उपस्थं स्पृशत्यसौ दृष्टः पितृभ्यां वारितोऽभितोऽतिष्ठन् निस्सारितो गेहाद्, गतः पल्ली सञ्जातस्तदधिपतिरितरापि वर्द्धमानप्रबलकामतर्षतया गता कंचिद् ग्रामम्, पतितास्तत्र ते चौराः, समर्पितस्तया किं मां न नयत' इति वचनेनात्मा, तेषां, जाता सर्वेषां पत्नी, तत्कृपया चानीता तैरन्यापि स्त्री, ममेयं
रतिविघ्नहेतुरिति सञ्चिन्त्य गतेषु क्षिप्ता तयाऽसौ कूपे, न दृष्टा १. इणमं खडड, ड, इणमा मुद्रिते । २. पापचरितानि दुष्टचेष्टितानि न कथञ्चित्कार्याणीत्यभिप्रायः
खडड । ३. प्रत्यादेशो ड । ४. भूतस्तो छ । ५. मर्मस्तु KI * "इदं तदेव संजातम्, यत् केनचिदुच्यते" इत्यर्थः । ६. पुनः पुनः नु उपस्थं ख।।
१२८ इन्द्रियपराजयशतकम्