________________
न मेरौ रमते नैव नन्दनेऽप्यभिनन्दति । नो नाटकमभिष्टौति न प्रीणीते प्रिया अपि।।३।। इत्थं विगतचेतस्कमुपलक्ष्य बिडोजसम् । कृताञ्जलिपुटाः प्राहु रम्भाद्यास्त्रिदशस्त्रियः ।।४।। स्वाधीनसर्वसंपत्तेर्देवराज ! तवापि किम् ! । दुःसाध्यं विद्यते किंचिद्विषण्णो येन लक्ष्यसे ? ।।५।। यद्यपि स्त्री न मन्त्रार्हा स्वभावचपलाशया । तथापि हि हिते दुःखं निवेद्य सुखमाप्यते ।।६।। [ ] तदुक्तम् - सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि सौहृदयुक्ते “निवेद्य दुःखं सुखी भवति ।।७।। चतुर्दशजगत्स्स्रष्टा प्रजापतिरपि स्वयम् । यत्तपस्तप्यते तीव्र तेन मे कम्पते मनः ।।८।। 'कियन्मात्रमिदं स्वामिन् ? क्षोभयाम्: क्षणेन तम्' । इति ताः प्रतिजानाना विसृष्टास्तेन भूतले ।। ।।९।। सुराङ्गनाः सन्धिवृत्तिस्वरग्रामैकपेशलम् । संगीतं त्रयन्ति स्म पुरः संभूय वेधसः ।।१०।। तद्गीतनृत्यवादित्रव्याक्षिप्तसकलेन्द्रियः । निश्चेष्टकायतां प्राप ब्रह्मा हरिणवत्क्षणात् ।।११।। बभाषे तास्तपोन्यस्याः वृणीध्वं वरमीप्सितम् । तासु रम्भोपमानोरु रम्भोवाच पितामहम् ।।१२।। एता वयम्, असौ च्छागः सेयं कादम्बरी प्रभो । । अमीष्वाद्रियतामेकं यद्यस्मासु प्रसादभाक् ।।१३।। स्रष्ट्रा विमृष्टं भ्रंशाय तपसः सेविता ह्यमूः । छागश्च जीवघातोऽयमुचितो न तपस्विनाम् ।।१४।। सुरा तु सलिलाऽऽकारा न दुष्टा शिष्टचेतसाम् । अतस्तामुररीकृत्य पपौ निशङ्कमात्मभूः ।। ।।१५।। जातोन्मादः क्षुधाक्रान्तश्छागं हत्वा जघास सः ।
कामयामासिवांस्ताश्च परीक्षामिति चक्रिरे ।। ।।१६।। 'हद्धगसिन्धोः' (सि० ७-४-२५) सूत्रेण भाववाचकेऽणि परे सौहार्द-सौहृदयोरूभययोरपि सिद्धिः।
१२४ इन्द्रियपराजयशतकम्