SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ गाथा : हरिहर-चउराणण,-चन्दसूरखंदाइणो वि जे देवा । नारीण किंकरतं, कुणंति धिद्धी विसयतिण्हा ।।५६।। व्याख्या : हरिहरचतुराननचन्द्रसूर्यस्कन्दादयोपि देवा' नारीणां किंकरत्वं दासत्वं कुर्वन्ति । धिक् धिक् विषयतृष्णां इन्द्रियार्थलोलताम् । लौकिकमते ह्यमी देवाः, ते च स्त्रीभिर्नवनवप्रकारैर्विनटिता तत्र हरिर्नारायणस्तस्य तु स्त्रीपारवश्यं रुक्मिणीपाणिग्रहप्रस्तावे बोद्धव्यम्, क्रीडालोलतया च गोपीषु तस्य तत्तद्विगोपकप्रकारा लौकिकप्रसिद्धत्वादनेकशो ज्ञेया यथा - राधा पुनातु जगदच्युतदत्तदृष्टि, मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालि, देहेपि दोहनधिया वृषभं निरुन्धन् ॥१॥ [ ] इत्यादि हरो=महेश्वरः, तस्य च पार्वतीविरहासहिष्णुतयाऽर्द्धनारीनाटेश्वरमूर्तिधारकत्वे स्पष्टमेव नारीकिंकरत्वम् । यदुक्तम्* मयणतणुदहणवइयरनिरप्पणो फुडमवीससंतीए । गउरीइं चंदचूडो निवेसिओ नियसरीरेण ।।१।।[ ] अन्यञ्च अम्बेयं नेयमम्बा नहि किलकपिलः श्वश्रुरस्या मुखाग्रे, तातोऽयं नैव तातः स्तनगुरुहृदयं नैव दृष्टं कदाचित् । केयं कोयं किमेतत्कथमिति सभयं याति सूनो विशाखे, देव्या सार्द्ध सहास्यं रहसि परिणतः पार्वतीशः पुनातु ।।२।।[ ] इत्यादि कियदुच्यते । चतुराननो ब्रह्मा, तद्वृत्तं चेदम् - किल प्रजापतिः पूर्वं कदाचित् काननं श्रितः । अध्युष्टाः "शरदां कोटीस्तपस्तेपे सुदुस्सहम् ।।१।। तज्ज्ञात्वा त्रिदशाधीशश्शुक्षोभ निजचेतसि । यद्येष क्रोधमाधत्ते मामपि भ्रंशयेत्पदात् ।।२।। १. विसयतण्हा मुद्रिते । २. दयोऽपि ते देवा ख । * अनङ्गदहनवृत्तान्तेन निरात्मीयः अनात्मवशीभूतः इत्यर्थः । + कार्तिकेये इत्यर्थः । . अध्युष्टशब्दोऽर्धचतुर्थवाची शब्दरत्नमहोदधौ । १२३ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy