SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ व्याख्या हे 'जीव!' आत्मन् !, त्वं 'मा जानीहि ' माऽवबुध्यस्व, यथा मम पुत्रकलत्रादिः सुखहेतुर्भविष्यति, तर्हि किं जाने ? इत्याह- 'संसारे' भवे ‘संसरतां’ नारकतिर्यग्भवादिरूपेण पर्यटतां जीवानामेतत् पुत्रकलत्रादिकं 'निपुणं' गाढं बन्धनं, एतद्बन्धनबद्धा एव जन्तवः संसारे तिष्ठन्तीत्येवं जानीहीति भावः ।। २१ ।। गाथा व्याख्या - - - जणणी जाय जाया, जाया माया पिया य पुत्तो य । अणवत्था संसारे, कम्मवसा सव्वजीवाणं ।। २२ ।। हे प्राणिन् ! संसारे 'कर्मवशात्' कर्मपरतन्त्रतया, 'सर्वजीवानां' सकलप्राणिनां, ‘अनवस्था' अनैयत्यं, तामेवाऽऽह-या 'जननी' माता, सैव भवान्तरे 'जाया' पत्नी 'जायते' उत्पद्यते, या जाया सा माता जायते, तथा कर्मवशात् पिता च पुत्रो भवति, च शब्दात्पुत्रश्च पिता भवति, अतोऽनवस्थैव, यदा जननी जनन्येव जाया जायैव भवान्तरेऽपि भवेत्तदाऽवस्था-नैयत्यं भवेत्, तथा नास्ति, अतोऽनवस्था, तथा चोक्तं श्रीमद्भगवत्यां “अयं णं भंते ! जीवे सव्वजीवाणं मातित्ताए पियत्ताए भाइत्ताए भगिणित्ताए भज्जत्ताए पुत्तत्ताए धुतत्ताए सुत्ताए उववण्णपुव्वे ?, हंता गोयमा ! असतं अदुवा' अतखुत्तों । सव्वजीवा विणं भंते ! इमस्स जीवस्स मातित्ताए जाव उववण्णपुव्वा ?, हंता गोयमा ! जाव अणंतखुत्तो । अयं णं भंते ! जीवे सव्वजीवाणं अरित्ताएँ वेरियत्ताएँ घातयत्ताएँ वहगत्ताएँ पडिणीयत्ता पच्चामित्तत्ताएं उववण्णपुव्वे ? हंता गोयमा ! जाव अणंतखुत्तो । सव्वजीवा वि णं भंते !, एवं चेव । अयं णं भंते ! जीवे सव्वजीवाणं रायत्ताए जुवरायत्ताए जाव सत्थवाहत्ताए उववण्णपुव्वे ?, हंता गोयमा ! असई जाव अ । सव्वजीवा विणं एवं चेव । अयं णं भंते ! जीवे सव्वजीवाणं १. असकृत्-अनेकशः । २ अथवा । ३ अनन्तकृत्वः - अनन्तवारान 1 ४ सामान्यतः शत्रुभावेन । ५ वैरिकः शत्रुभावानुबन्धयुक्तस्तत्त या । ६ मारकतया । ७ व्यथकतयाताडकतयेत्यर्थः । ८ प्रत्यनीकतया - कार्योपघातकतया । ९ अमित्रसहायतया । ( इति वृत्ती श्रीमदभयदेवसूरिमिश्राः) १० वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy