SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ व्याख्या : पाशेन बन्धनग्रन्थिना पञ्जरेण च वीतंसेन' क्रमेण चतुष्पदा मृगादयः, पक्षिणश्च विहगा बध्यन्ते = नियन्त्र्यन्ते । एवं युवतिपञ्जरेण बद्धा वशीकृताः पुरुषाः क्लिश्यन्ति क्लेशमनुभवन्ति, न स्त्रीभ्यो मुच्यन्त इत्यर्थः ।।५३।। गाथा : अहो मोहो महामल्लो, जेणं अम्हारिसा वि हु । जाणंता वि अणिच्चत्तं, विरमन्ति न खणं पि हु ।।५४।। व्याख्या : अहो इति आश्चर्ये, मोहो मोहनीयकर्म, महामल्लो, महाबली, 'मल्लः कपाले बलिनि मत्स्ये पात्रे.' (२-५१७) इत्यनेकार्थः येन कारणेन, अस्मादृशा अपि सकलशास्त्रार्थावबोधेन अनित्यत्वं शरीरादेर्जानन्तोऽपि न क्षणमपि, हुनिश्चये स्त्र्यादिसङ्गाद्विरमन्ति=निवर्तन्ते । मोहस्य दुस्त्यजत्वात्, यतः - मुण्डं शिरो, वदनमेतदनिष्टगन्ध, भिक्षाऽटनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ।।१।। भर्तृ. सुभाषितसंग्रह) गाथा : जुवईहि सह कुणंतो, संसग्गिं कुणइ सयलदुःक्खेहिं । न हि मूसगाण संगो, होइ सुहो सह बिडालीहिं ।।५५।। व्याख्या : युवतिभिः सह संसर्ग सम्बन्धं कुर्वाणः सकलदुःखैः सह संसर्ग करोति । युवतिसम्बधे तपःशीलव्रतादि भङ्गात् सर्वदुःखानि जायन्त इत्यर्थः यतःसब्भावो वीसंभो, नेहो-रइवइयरो य जुवइजणे । सयणधर-संपसारो, तवसीलवयाइ फोडिज़ा ।।१।। यतो बिडालीभिर्माजारीभिः सह मूषकाणां आखूनां सङ्ग-संयोगो, नहि नैव सुखः-सुखकर : ।।५५।। १. जुवइहिं मुद्रिते । २. मुसगाणं... विलाडेहिं मुद्रित ३. संसर्गि डड, ड । ४. शीलवृत्तादि ख । । + वीतंसी = जालः । प्राकृते "संसग्गी" शब्दो यद्यपि दीर्घान्तस्तथापि “हस्वोऽमि" (सि०८-३ ३६) सूत्रेण स्त्रीलिङ्गमात्रं नाम अमि परे हस्वान्तं भवति । १२२ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy