SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ वारीगयाण* जालं तिमीणहरिणाण वग्गुरा चेव । पासा य सउणयाणं नराण बन्ध इत्थमित्थीओ |१| | J किभूतं युवत्यङ्गम् ? अशुचिमूत्रमलप्रवाहरूपकं अशुचिरपवित्रो मूत्रस्य प्रस्रावस्य, मलस्य च=विष्टाया यः प्रवाहः = सातत्यप्रवृत्तिस्तद्रूपं तत्स्वरूपम् । मलत्व ।। किट्टे कदये विष्टायामित्यनेकार्थः (२-५१७) ।। तथा ‘वान्तपित्तवसामज्जापुष्पसं' वान्तं वमनम्, पित्तं -मायुः, 'पीयते जलमनेन, पतति=स्रंसते वा पित्तम्, वसा-मांसजम्, मज्जा=अस्थिस्नेहः, पुष्पसः हृदयस्य वामपार्श्वे रक्तफेनाज्जातं मांसखण्डम्, ततो द्वन्द्वस्ते यत्र तत् । तथा मेदो=मांसमेदसोरवस्थाकृतो भेदः, मेदश्च मांसं च पललं बहूनि हड्डानि च कीकसानि तेषां करण्डकमाधारः करण्डकं पुष्पाद्याधारः लिङ्गानुशासनवृत्तौ । तथा चर्म्ममात्रेण त्वचैव प्रच्छादितमावेष्टितम् ।। ५१ ।। तथा युवत्यङ्गं 'इदं मांसं' मांसोपचित्वात् साक्षान्मांसपिण्ड इवेत्यर्थः । तथा मूत्र - पुरीष मिश्र मूत्रविष्टासंवलितं पुनः कथनमतिजुगुप्स्यताद्योतनार्थम् । तथा 'सिंङ्घाण - श्लेष्मादिकम्, निज्झरंतं' त्ति नितरामतिशयेन क्षरत्-गलत् क्षरेरेते षडादेशा भवन्ति खिरइ झरइ पज्झरइ - पचडइ - निचलइनिट्टुअइ' इति । शिङ्खाणो घ्राणसम्भवं मलं तथा अनित्यं अशाश्वतं तथा कृमीणां क्षुद्रजन्तूनां वासोऽवस्थानाश्रयः ।।५२।। - - गाथा : पासेण पंजरेण य, बज्झति चउप्पया य पक्खी य । इअ जुवइपंजरेणं, बद्धा पुरिसा किलिस्संति ।। ५३ ।। १. पायते । २. निट्टुअइ ख । ३. चउपया य पक्खीइ मुद्रिते । * ह्रस्वदीर्घो मिथो वृत्तौ (सि० ८१- ४) सूत्रेण वारिशब्दस्य दीर्घत्वम् । + अत्थंशब्दोऽत्रादेशः ।■ फुप्फुसेति उदरान्तर्वतन्यन्त्रविशेषरूपाणि, 'फेफसा' इति भाषायाम्, 'काळजु' शब्देन लोकप्रचलितं द्रव्यं चाऽत्र टीकायाम् । लिङ्गानुशासने पुंनपुंसकलिङ्गप्रकरणे एकादशश्लोकविवेचने । ** (सि० ८-४-१९७३) सूत्रेणैते भवन्ति । १२१ इन्द्रियपराजयशतकम् 絲
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy