SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ गाथा : खेलंमि पडिअमप्पं, जह न तरइ मच्छिआ विमोएउं । तह विसयखेलपडिअं, न तरइ अप्पंपि कामंधो ।।४७।। व्याख्या : यथा मक्षिका श्लेष्मणि' = खटे' पतितमात्मानं स्वशरीरं विमोचयितुं श्लेष्मणो विश्लेषयितुं न तरति=न शक्नोति, तथा कामान्धः पुमान् विषयश्लेष्मणि पतितं विषयश्लेष्मपतितमात्मानमपि विषयश्लेष्मणों विमोचयितुं = उद्धर्तुं विषयप्रतिबन्धात् त्याजयितुं न तरति न शक्नोतीति भावः ।।४७।। गाथा : जं लहइ वीअराओ, सुक्खं तं मुणइ सुश्चिय न अन्नो । न हि गत्तासूअरओ, जाणइ सुरलोइअं सुक्खं ॥४८॥ व्याख्या : यद्वीतरागो गतविषयरागबुद्धिः सौख्यमाह्लादं लभते । तत् सुखं स एव वीतराग एव लभते, । न अन्यः= न तस्मात्परः । न हि गर्त्ताशूकरक: सुरलोके भवं सौरलोकिकं अनुशतिकादित्वादुभयपदवृद्धिः, सौख्यं स्वर्गसम्बन्धिसुखं जानीते बुध्यते ।।४८।। गाथा : जं अज्जवि जीवाणं, विसएसु दुहासवेसु पडिबंधो । तं नज्जइ गुरुआण वि', अलंघणिजो महामोहो ।।४९।। व्याख्या : यत् अद्यापि विषयविरक्ततोद्भावकश्रीजिनागमश्रवणवासितान्तः करणत्वेऽपि । जीवानां दुःखाश्रवेषु दुःखान्याश्रवन्ति-प्रविशन्ति येभ्यस्ते दुःखाश्रवा दुःखोपादानकारणानि एवंविधेषु विषयेषु यः प्रतिबन्धः सातत्येन प्रवृत्तिः, केषां ? गुरूणामपि महाशयानामपि तत् ज्ञायते अलङ्घनीयो दुरतिक्रमणीयो महामोहः । महामोहस्य बलवत्तरत्वान्महतामपि न विषयेभ्यो विरतिर्जायत इत्यर्थः, यतः१. अप्पमि ड । खेले ड । २. खेले ख । ३. श्लेष्मणा ड, । ४. प्रजयितुं ड । * खटः = कफः इति अभिधानचिन्तामणौ । ५. गुरुआणि वि छ । ६. दुःखान्याश्रवन्ति-क्षरन्ति ये ते दुःखाश्रवास्तेषु विषयेषु यः प्रतिबन्धः सातत्येन... ख । * ये ये प्राप्त्यर्थास्ते ते ज्ञानार्था इति न्यायेन जानातीत्यर्थः कार्यः । + लोकोत्तरपदस्य च ठञ् वक्तव्यः (महाभाष्य ७९५) KAKKARKETREKKEEKEREKKKKARKEkkkkk ११९ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy