SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अभये दत्ते कथितं, अस्ति कम्बल:, गणिकायै नयामि, मुक्तः, ततस्तस्यै दत्तः, तंया चन्दनिकायां (व!गृहे) निक्षिप्तः, स वारयति, मा विनिनेशः, सा भणतित्वमेतं शोचसि, आत्मानं न शोचसि त्वमेतादृशश्चैव भविष्यसि इति उपशामितः, कथं ? शीलनिर्मलं दीर्घ कालतरुणत्वे पालितः, पालयित्वा ध्यानाध्ययनैः पापपत तपचरणैः क्षालयित्वा । एते हालाहलविससदृशा विषया शा निवारय, उज्ज्वलवर्णसुवर्णं धमित्वा मा फूत्कारेण हारय, धीरपदान् अध्यासय, ज्ञानवरान् आवर्जय मुनिगणान् तावत् संप्रति उपशमं धर मनसि, आयाति, तूर्तं जरामरणं । एवमादि अनुशासितः संवेगमापनः आत्मानं निन्दन पश्यत परमनिर्गुणस्य प्रशंसनप्रियत्वं अथवा सद्गुणकीर्तनेनापि पुरुषाः लज्जन्ति ये महासत्त्वा इतरस्तु न अलीकप्रशंसनेऽपि हृदये न मान्ति, तथा किं कदापि समोऽपि वर्णेन बकः कलहंसचरितानि अनुकरोति । किं खद्योतस्तुल्येत तरणिम्णडलं इति प्रशंसन् स्थूलभद्रमहामुनि, 'इच्छामि अनुशास्ति' इति भणित्वा गतो गुरुमूलं, आलोच्य प्रतिक्रान्तः विहरति । आचार्यैरपि एवं दुष्कर-दुष्करकारकः स्थूलभद्रः पूर्वपरिचिता, उत्कटरागा, अध्यासिता इदानीं श्राद्धी जाता अदृष्टदोषा च त्वया प्रार्थितेति उपालब्धः, एवं ते विहरन्ति, सा च गणिका यथा रथिकाय दत्ता, यथा स्थूलभद्रस्य गुणान् प्रशंसति तथा कथानकं आवश्यके दृष्टव्यं, यथा स्थूलभद्रेण स्त्रीपरिषहोऽध्यासितस्तथाऽध्यासितव्यः न पुनर्यथा तेन नाध्यासित इति, गाथा : सव्वग्गंथविमुक्को, सीईभूओ पसंतचित्तो य । जं पावइ मुत्तिसुहं, न चक्कवट्टी वि तं लहइ ।।४६।। व्याख्य : एवंविधः साधुर्यत्प्राप्नोति मुक्तिसुखं मुक्तिः - निर्लोभता, तस्याः सुखं 'तत् चक्रवर्त्यपि चतुःषष्टिसहस्ररमणीभोगासक्तोऽपि न लभते सुखम् । किंभूतः साधुः ? सर्वस्माद् ग्रन्थाद् बाह्याभ्यन्तरपरिग्रहाद्विमुक्तस्तद्विरहित इत्यर्थः । ग्रथ्यते बध्यते आत्मा येन स ग्रन्थः, बाह्यपरिग्रहो धनधान्यहिरण्यद्विपदचतुष्पदादिरान्तरस्तु' "मिच्छत्तं वेयतिगं हासाईच्छक्कगं च बोधव्वं । कोहाईण चउक्कं चउदस अब्जिंतरा गंठी ।।१।। तथा शीतीभूतः रागाद्युत्पत्तिविरहितं शैत्यं प्राप्तः, प्रशान्तचित्तः = उदितकषायाणां विफलीकरणात् ।।४६।। १. तत्र खडड१ ड२ । २. बाह्यपरिग्रहो धनधान्यादिरान्तरस्तु ख । AKKERKKEEKKERKEEKEEREKKAREKKEEKEk ११८ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy