________________
व्याख्या : धीरा=मनोदार्ढ्यधारिणः पुरुषा एवंविधं तारुण्यमहार्णवं यौवनसमुद्रं उत्तीर्णाः पारगामिनो जाताः । किंभूतं तारुण्यमहार्णवम् ? विषयजलं विषया एव जलं यत्र स तम् । तथा मोह एव कलमव्यक्तमधुरध्वानो यत्र स तथा तम् । तथा विलासः * स्थानगमनादिवैशिष्ट्यम्, विव्वोक: सौभाग्यगर्वादिष्टेऽप्यवज्ञा, तावेव जलचरा-मत्स्यास्तैराकीर्णं व्याप्तम् । तथा मदो 'जात्यादिरष्टविधः स एव मकरा जलचरविशेषाः यत्र स तथा तम् । तारुण्ये ह्येते विषयमोहविलासविव्वोकमदाख्या भावा भवन्ति, भवन्ति, समुद्रेऽपि जलकलजलचरमकराः स्युरिति तारुण्येऽम्बुधिसाम्यमापादितम् । कलं च जीर्णरेतसोः अव्यक्तमधुरध्वाने (२-४८८) इत्यनेकार्थः ।। ४४ ।।
=
=
गाथा : जइ वि परिचत्तसंगो, तवतणुअंगो तहा वि परिवडइ । महिलासंसग्गीए, कोसाभवणोसियमुणिव्व ।। ४५ ।।
व्याख्या : यद्यपि परित्यक्तसङ्गः परित्यक्तः परिहृतः स्त्रीणां सङ्गः समीपस्थायित्वं येन सः । तथा तपसा षष्ठाष्टमादिविधानेन तनु- कृशमङ्ग- शरीरं यस्य एवंविधस्तथापि महिलासंसर्ग्या' - स्त्रीसङ्गेन परिपतति संयमाद् भ्रश्यति । क इव ? कोशाभवनोषितमुनिरिव, कोशाभवने उषितः स्थितो यो मुनिः सिंहगुहावासिसाधुः, स इव । तत्कथेयम् :
#
१. भवणूसिय मुद्रिते । लीला विलासोविच्छित्तिर्विव्वोकः किलिकिञ्चितम् ।।५.७ ।। मोटायितं कुट्टुमितं ललितं विहृतं तथा विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ।।५०८ ।। वाग्वेषचेष्टितैः प्रियस्यानुकृतिर्लीला, स्थानगमनादिवेशिष्ट्यं विलासः, शोभाकृद्गर्वादल्पाकल्पविन्यासो विच्छित्तिः, सौभाग्यगर्वादिष्टेष्ववज्ञा विव्वोकः, सौभाग्यगर्वात् स्मितादीनां संकरः किलिकिञ्चितम्, प्रियकथादौ तद्भावभावनोत्था चेष्टा मोटायितम्, अधरादिग्रहणाद् दुःखेऽपि हर्षः कुट्टुमितम्, मसृणाङ्गन्यासो ललितम्, भाषणावसरे व्याजादभाषणं विहृतम्, सौभाग्यगर्वाद् वचनादीनामन्यथा निवेशो विभ्रमः । इति अभिधानचिन्तामणितट्टीकयोः । + " जाई - कुल-बलरुवे तव-ईसरिए सुए लाहे” त्ति आवश्यकनिर्युक्तिचतुर्थाध्ययने हारिभद्रीयायाम् मदविभागः ।
११४ इन्द्रियपराजयशतकम्