________________
गाथा : मयण-नवणीय-विलओ, जह जायइ जलणसंनिहाणंमि । तह रमणि - संनिहाणे, विद्दवइ मणो मुणीणं पि ।। ४२ ।।
व्याख्या : यथा ज्वलनसन्निधानेऽग्निसामीप्ये * मदननवनीतविलयो जायते मदनस्य सिक्ककस्य' नवनीतस्य च विलयो भवति काठिन्यमपयातीत्यर्थः, तथा रमणीसन्निधाने स्त्रीसंयोगे मुनीनामपि मनो विद्रवति विलीनं भवति दा परित्यज्य शिथिलं भवतीत्यर्थः ।।४२।।
गाथा : नीयंगमाहिं सुपयोहराहिं, उप्पेच्छ- मंथरागईहिं । महिलाहि निमग्गाहिव, गिरिवरगुरुआ वि भिज्जन्ति ॥ ४३ ॥
व्याख्या : एवंविधाभिर्महिलाभिः = स्त्रीभिर्निम्नगाभिरिव गिरिवरगुरुका अपि, (भिद्यन्ते) किं भूताभिर्महिलाभिः ? नीचगामिनीभिरुच्चं जनं परित्यज्य नीचैः सह संयुज्यन्त इत्यर्थः । तथा शोभनौ पीनौ पयोधरौ कुचौ यासां तास्ताभिः सुपयोधराभिः, तथा उत्प्रेक्ष्या ऊर्ध्वमुचैर्भूय प्रकर्षेण अवलोकनयोग्या मन्थरा सविलासा गतिर्यासां तास्ताभिः । नद्योप्येवं नीचगामिन्यः, शोभनं पयः पानीयं धरन्तीति सुपयोधराः, मन्थरगतयश्च भवन्तीति ।। ४३ ।।
=
गाथा : विसयजलं मोहकलं, विलासविव्वोअजलयराइन्नं । मयमयरं उत्तिन्ना, ' तारुण्णमहन्नवं धीरा ||४४॥
१. सिक्तस्य ख । २. उप्पित्थमंथरगईहिं मुद्रिते । ३. महिलाहिं मुद्रिते । ४. उत्प्रेक्षा उत्प्रेश्रा ख । ५. तारुन्नं ड । * 'पीण' इति भाषायाम् ।
११३ इन्द्रियपराजयशतकम्