________________
गाथा : परिहरसु तओ तासिं, दिढि दिट्ठीविसस्स व अहिस्स ।
जं रमणिनयणबाणा, चरित्तपाणा' विणासंति ।।४०।।
व्याख्या : ततस्तस्माद्धेतोस्तासां मृगाक्षीणां दृष्टिं परिहर, तासां दृग्गोचरे मा
गच्छेरित्यर्थः । कस्येव दृष्टिविषस्याहेरिव, यथा दृष्टिविषाहेर्दृष्टिविषयता परिहार्या, तथा 'तासामपि । तत्र हेतुमाह - यद् यस्माद्रमणीनयनबाणाश्चारित्रप्राणान् विनाशयन्ति । स्त्रीभिः कटाक्षिताः के न चारित्रं त्यजन्ति ? ।।४०।।
गाथा : सिद्धंतजलहिपारंगओवि, विजिइंदिओ वि सूरो वि ।
दढचित्तो वि छलिजइ, जुवइपिसाईहि खुड्डाहिं ।।४१।। व्याख्या : एवंविधोऽपि पुरुषो युवतिपिशाचीभिश्छल्यते = वञ्यते सन्मार्गाच्चाव्यत
इत्यर्थः । किंभूताभिः ? क्षुद्राभिरुत्तानमतिभिः । किंभूतः सः ? सिद्धान्तजलधिपारगतोऽपि = सिद्धान्तजलधेः पारं प्राप्तोऽपि, अलाक्षणिको *"मुमागमः ।। तथा विजितानि वशीकृतानीन्द्रियाणि येन स विजितेन्द्रियः एवंविधोऽपि, तथा शूरोऽपि वीरोऽपि, तथा दृढचित्तोऽपि दृढं चित्तं यस्येति एवंविधोऽपि ।।४१।।
१. चरित्तपाणे मुद्रिते २. तथा साऽपि ड । ३. पिसाइहिं खुहाहिं मुद्रिते । ___ अत्र 'रमणि' इति हूस्वत्वं 'दीर्घह्रस्वौ मिथो वृत्तौ' (सि. ८-१-४) सूत्रेण संमतमस्ति ** लक्षणेन = केनापि व्याकरणसूत्रेणाऽनिर्दिष्टः, आर्षप्रयोगे लोकाद्वा ज्ञायमानः कोऽपि
प्रयोगोऽलाक्षणिक उच्यते ।
११२
इन्द्रियपराजयशतकम्