________________
स्त्रीस्वभावानां किं परिज्ञातम् ? इत्येवं स्त्रीचरित्रं दुर्विज्ञेयमिति, नाऽत्रास्था कर्तव्येति तथा चोक्तम् हद्यन्यद्वाच्यन्यत्कर्मणाऽन्यत् पुरोऽथ पृष्टेऽन्यत् । अन्यत्तव मम चान्यत् स्त्रीणां सर्वं किमप्यन्यद् ।।१।। इति [ ] तथा क्लेशकरी-क्लेशजनयित्री । तथा वैरमेव विरोचनोऽग्निस्तस्य जनने अरणिरिव या सा वैरविरोचनारणिः अरणिरग्निमथनकाष्टम्, तथा दुःखानां खनिः= आकरः एतास्वासक्तानां दुःखानि सुलभान्येव पातालसुन्दरीप्रसक्तसार्थवाहवत् । तथा सुखस्य स्वर्गमोक्षसौख्यस्य प्रतिपक्षा-वैरिणी
।।३८।।
गाथा : अमुणिअ-मणपरिकम्मो, सम्मं को नाम नासिउं तरइ ।
वम्मह-सर-पसरोहे, दिट्ठिच्छोहे मयच्छीणं ।।३९।।
व्याख्या : मृगाक्षीणां सुभ्रुवाम्, दृष्टिक्षोभे दृशोरपाङ्गसञ्चारे जाते सति, 'कः' इति
सामान्योक्तिःसर्वव्याप्तिसूचिका, नामेति कोमलामन्त्रणे, सम्यक् नंष्टुं पलायितुम्, तरति शक्नोति न कोऽपीत्यर्थः । सर्वेऽपि तद्वशगा भवन्तीति भावः । किं भूतः कः ? 'अमुणिअमणपरिकम्मु' त्ति अज्ञातमनःपरिका , न ज्ञातं मनःपरिकर्मा मनोव्यापारो येन सः, यथा मनस्तावत् स्रीष्वेव प्रसरति ।। यतःपुष्फफलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणंता जे विरया ते दुक्करकारए वंदे ।।१।।। । एवं च स न जानीते किमेतासां दर्शने मम भविष्यतीति, यदि मनोव्यापारमेवंविधं जानीयात्तदा कथमसौ तददृष्टिसञ्चारे तिष्ठेदिति । किं भूते दृष्टिक्षोभे ? मन्मथशरप्रसरौधे मन्मथशराणां उन्मादनमोहनतापनशोषणमारणाख्यानं पञ्चानां कामबाणानां प्रसरौघः प्रवृत्तिप्रवाहो यत्र स
तथा तस्मिन् ।।३९।। १. नारणिरग्निमथन० ड । २. मथनकाष्ठो ड । ३. पसरोहो मुद्रिते । ४. कारया ख । * यथेत्यव्ययमपप्रदर्शने कीदृशः मनोव्यापारः येन न ज्ञातः ? तदेवोपदर्शयति- मनस्तावत स्त्रीष्वेव
प्रसरतीत्यादि । + कालिकापुराणे हर्षणरोचनद्रावणशोषणमारणाख्यपञ्चबाणोक्तिः काममन्मथकन्दर्पमकरध्वजमीन केत्वितिनामपञ्च-कनिरुक्तिश्च द्वितीयाध्याये वर्तते । ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे ३२तमेऽध्याये... सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा । स्तम्भनश्चेति
कामस्य पञ्च बाणाः प्रकीर्तिताः ।। इत्यादि पञ्चानां वर्णनं समस्ति । KKKKKKRREKKERRRRRRRRRRRRRRRRRRRREAK १११ इन्द्रियपराजयशतकम्