________________
तस्याम्। जायापत्योमिथो रत्याऽऽवृत्तिः शृङ्गार उच्यते । रतेः पुनः पुनरनुशीलनं परस्परवर्णनं' रत्याऽऽवृत्तिः । तथा विलसनं विलासः स्थान-गमनादि-वैशिष्ट्यं स एव वेला जलवृद्धिर्यस्यां सा तथा तस्यां वेलायाः समुद्रधर्मत्वेऽपि सागमिन्यां सरिति न तदसम्भवः, तथा यौवनं तारुण्यमेव जलं नीरं यस्यां सा तथा तस्याम् ।।३७।।
गाथा : सोयसरी दुरिअदरी, कवडकुडी महिलिया किलेसकरी ।
वयर-विरोअण-अरणी , दुःक्खखणी सुक्खपडिवक्खा ।।३८।।
व्याख्या : एवंविधा नारी वर्त्तत इत्यध्याहारः किंभूता ? शोकः इष्टवियोगजनितं
मनोदुःखम् तस्य सरिदिव=नदीव शोकसरित् शोकोऽस्यामन्वहं प्रवर्तत इत्यर्थः । इयं दुश्शीलाऽकथितकारिणी । 'वन्ध्या वेत्यादिविलोकनाच्छोक एव परिणेतुर्भवतीति भावः तथा दुरितस्य पापस्य दरी-कन्दरा तथा कपटस्य कूटस्य कुटी=मन्दिरम्, यतः - देवाण दाणवाणं, मन्तंमन्तंतिमंतनिउणा जे इत्थीचरिअंमि पुणो, "ताण विमंता कहिं नट्ठा ।।१।। । स्त्रीणां कपटनाटकपाटवे कथानकमिदम् - तद्यथैको युवा स्वगृहानिर्गत्य “वैशिककामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः । तदन्तरालेऽन्यतरग्रामवर्तिन्यैकया योषिताऽभिहितस्तद्यथा - 'सुकुमारपाणिपादशोभनाकृतिस्त्वं क्व प्रस्थितोऽसि ?' तेनापि यथावस्थितमेव तस्याः कथितम् । तया चोक्तम् - 'वैशिकं पठित्वा मम मध्येनागन्तव्यम् । तेनापि तथैवाभ्युपगतम् । अधीत्य चासौ मध्येनायातः । तया च स्नानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहतहृदयः संस्तां हस्तेन गृह्णाति । ततस्तया महता शब्देन पूत्कृत्य, जनाऽऽगमनाऽवसरे मस्तके वारिवर्द्धनिका प्रक्षिप्ता । ततो लोकस्य समाकुलेयमाचष्टे यथाऽयं गले लग्नेन गोदकेन मनाक् न मृतः, ततो मयोदकेन
सिक्त इति । गते च लोके सा पृष्टवती 'किम् ? त्वया वैशिकशास्त्रोपदेशेन १. शृङ्गारमुच्यते ख । २. परस्परवर्णनमित्यावृत्तिः ख । ३. ०मिव ड । ४. दुहखाणी - मुद्रिते ५. ___ वन्थ्यादिविलो० छ। ६. कन्दरः ख । ७. ताए ड । * वेश्यासम्बन्धिकामशास्त्रमित्यर्थः । ** कदल्यामद्रुमे (सि०८-१-२२०) सूत्र टीकायां इमे वे अपि रूपे निर्दिष्टे स्तः ।
११० इन्द्रियपराजयशतकम्