________________
तथा महिलानां स्त्रीणां कायसेवी शरीरपरिभोगविधायी पुरुषः किंचिदपि अल्पमपि सुखं न लभते । 'पुरुष' इति उपदेशार्हत्वात्पुरुषाणां तन्निवृत्तेश्च संभवात्, चस्य गम्यमानत्वात्, स च वराकस्तपस्वी स्वकायपरिश्रमं = तद्भोगे निजशरीरखेदं सुखं मन्यते । मोहवशगस्य भ्रान्तिरेव सर्वत्र विलसति ।।३५।।
गाथा : सुट्ठवि मग्गिज्जंतो, कत्थवि केलीई नत्थि जह सारो ।
इंदियविसएसु तहा, नत्थि सुहं सुट्ठवि गविलृ ।।३६।। व्याख्या : यथा कदल्यां = रम्भायाम, सुष्टुप्यतिशयेन, मार्यमाणोऽपि=
विलोक्यमानोऽपि, कुत्रापि तत्प्रेदेशे सारो बलं नास्ति, तथा इन्द्रियविषयेषु सुष्वपि 'गविलृति विलोकितं सुखं नास्ति 'गवेषण मार्गणे' (है० धातुपाठ - १९१९] क्तरूपम्, कवली केलीति प्राकृते ।।३६ ।।
गाथा : सिंगारतरंगाए, विलासवेलाइ जुव्वणजलाए ।
के के जयंमि पुरिसा, नारीनईए न बुटुंति ।।३७।। व्याख्या : एवंविधायां नारीनद्यां नायेव नदी = सरित्तस्यां के के पुरुषा नरा जगति न
ब्रुडन्ति न निमज्जन्ति ? सर्वेऽपि स्त्रीवशगा भवन्तीति भावः । यदुक्तं भर्तृहरिणा - संसार ? तव निस्तार-पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ।।१।। शृङ्गारशतका यां चिन्तयामि सततं मयि सा विरक्ता, साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक्तां च तं च मदनं च इमां च मां च ।।२।। नीतिशतक गाथा-२] किंभूतायां नारीनद्याम् ? शृङ्गारा एव तरङ्गा = वीचयो यस्यां सा तथा
१. कयलीइ मुद्रिते । २ विलासवेलाए खडड, ।
१०९ इन्द्रियपराजयशतकम्