SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ गाथा : जं अइतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोयंमि । तं जाणसु विसयाणं, वुड्डिक्खयहेउअं सव्वं ।।३२।। व्याख्या : यत् अतितीक्ष्णं अत्युग्रं दुःखं नरकादौ, यञ्च उत्तमं सुखं त्रय एव लोकालोक्यं तस्मिन् त्रैलोक्ये तत्सर्वं जानीहि अवबुद्ध्यस्व विषयाणां वृद्धिक्षयहेतुकम्, वृद्धिश्च क्षयश्च वृद्धिक्षयौ, तावेव हेतुर्यत्र तत् वृद्धिक्षयहेतुकम्, विषयाणां वृद्धौ अतितीक्ष्णं दुःखं विषयाणां क्षये च उत्तम सुखमिति ।।३।। गाथा : इंदियविसयपसत्ता, पडंति संसारसायरे जीवा ।। पक्खिव्व छिन्त्रपक्खा', सुसीलगुणपेहण-विहूणा' ।।३३।। व्याख्या : इन्द्रियविषयेषु प्रसक्ता आसक्ताः, संसारसागरे पतन्ति निमज्जन्ति । किंभूतास्ते ? "सूसीलगुणपेहणविहूण" त्ति सुशीलस्य शोभनाचारस्य, ये गुणाः सङ्घसत्कारादयस्तेषां यत्प्रेक्षणमवलोकनम्, तेन विहीना रहिता सुशीलगुणप्रेक्षणविहीनाः । विषयासक्ताः सुशीलगुणान प्रेक्षन्त इत्यर्थः । कीदृशाः के इव ? छिन्नपक्षाः * = उलूनच्छदाः, पक्षिण इव=विहगा इव, यथा छिन्नपक्षाः पक्षिणः पतन्ति तथाऽमी अपि ।।३३।। गाथा : न लहइ जहा लिहंतो, महल्लियं अट्ठिअंतहा सुणओ । सोसइ तालुयरसियं, विलिहंतो मन्नए सुक्खं ।।३४।। महिलाण कायसेवी, न लहइ किंचि वि सुहं तहा पुरिसों । सो मन्त्रए वराओ, सयकायपरिस्समंसुक्खं ।।३५।।युग्मम् ।। व्याख्या : तथाऽश्वा=अस्थिभुक्, ‘महल्लियं' ति महत् स्वार्थे इल्लप्रत्ययः, अस्थि कीकसं लिहन आस्वादयन्, सुखं निर्वृत्तिम्, न लभते नासादयति, यथा हड्डु विलिहन् तालुकरसिकं घण्टिकास्थितलालाजलं शोषयति तत् सौख्यं मन्यते । आत्मना सुखं मानयति रस एव रसिकः, स्वार्थे ठन्** ।।३४।। १. छिन्नपंखा मुद्रिते । २. पेहुण खडड ड, । ३. महिल्लयं खडड ड, मुहल्लियं अट्टिअं जहा मुद्रिते । ४ पुरिसं मुद्रिते । * अत्र द्वीप्रश्नो, प्रथमस्तावत् के इव ? तदुत्तरम् - पक्षिण इव, द्वितीयः किं स्वरूपाः (कीदृशाः) पक्षिण इव ? तदुत्तरम् - छिन्नपक्षाः पक्षिण इव । ** पाणिनि व्याकरणे "इक" प्रत्ययस्य ठन् संज्ञा विद्यते । १०८ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy