________________
भोगे अवयक्खंता पडेंति संसारसागरे घोरे । भोगेहिं निरवयक्खा तरंति संसारकंतारं ।।२।। (सत्र-८५) तते णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवा०२ बहुहि अणुलोमेहि य पडिलोमेहि य खरमउसिंगारेहि य कलुणेहि य जाहे नो संचाएत्ति चालित्तए वा खोभित्तए वा विप्प० । ताहे संता तंता परितंता णिव्विन्ना समाणा जामेव दिसं पाउ० तामेव दिसि पडिगया, तते णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुदं मज्झं २ वीतीवयतिर जेणे व चंपानयरी तेणेव चंपानयरी तेणेव उवा० २ चंपाए नयरीए अग्गुज्जाणंसि जिणपालियं पिट्ठतो उयारेइर एवं व०२ एस णं देवा० चंपानयरी दीसइ त्ति कट्ट जिणपालियं पुच्छति जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगते (सूत्र-८६) तते णं जिणपालिए चंपं अणुप्पविसइ जेणेव सए गेहे जेणेव अम्मापियरो तेणेव उवा०२ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदइ, तते णं जिणपालिए अम्मापियरो मित्तणाइ जाव परियणेण सद्धिं रोयमाणाई बहुइं लोईयाइ मयकिञ्चाई करेंति २
भोगनवकाङ्क्षन्तः पतन्ति संसारसागरे घोरे, भोगैः निरवकाङ्क्षास्तरन्ति संसारकान्तारम् ।।२।। (सू. ८५) ततः सा रत्नद्वीपदेवता यत्रैव जिनपालितः तत्रैवोपगच्छति, उपगम्य बहुभिरनुलोमैश्च प्रतिलोमैश्च खरमृदुशृङ्गारैश्च करुणैश्च यदा नो संशक्नोति चालयितुं वा क्षोभयितुं वा विपरिणामयितुं वा । तदा शान्ता तान्ता परितान्ता निर्विण्णा सती यतः एव दिश : प्रादुर्भूता तामेव दिशं प्रतिगता, ततः स शैलको यक्षः जिनपालितेन सार्द्ध लवणसमुद्रं मध्यं मध्येन व्यतिव्रजति, यत्रैव चम्पा नगरी तत्रैवोपागच्छति, उपागम्य चम्पायाः नगर्या अग्रोद्याने जिनपालितं पृष्ठत उत्तारयति, उत्तार्य एवमवदत् एषा देवानुप्रिय ! चम्पानगरी दृश्यते, इति कृत्वा जिनपालितं आपृच्छति, आपृच्छ्य यत एव दिशः प्रादुर्भूतः तामेव दिशं प्रतिगतः (सू. ८६) ततो जिनपालितः चम्पामनुप्रविशति, अनुप्रविश्य यत्रैव स्वं गृहं यत्रैवाम्मापितरौ तत्रैवोपागच्छति, अम्मापितृभ्यां रुदन् विलपन् जिनरक्षितव्यापत्तिं निवेदयति, ततो जिनपालितः अम्मापितरौ मित्रज्ञाति यावत् परिजनेन सार्द्धं रुदन्तः बहूनि लौकिकानि मृतकृत्यानि कुर्वन्ति,
१०६ इन्द्रियपराजयशतकम्