SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ व्याख्या - हे प्राणिनः ! 'तद्' इति तारुण्यावस्थायां यद् ‘बलं' पराक्रममासीत्, तद्बलं तव कुत्र गतं ?, तथा तद् यौवनं' तारुण्यं कुत्र ?, तथा 'अङ्गचङ्गिमा' शरीरोत्कृष्टता, कुत्र ? तस्मात् 'कृतान्तेन' कालेन, कृत्वा 'दृष्टनष्टं' पूर्वं दृष्टं पश्चान्नष्टमिति दृष्टनष्टं 'सर्व' समस्तं 'अनित्यं' अशाश्वतं पश्यत' अवलोकयत, पूर्वं यच्छरीरमेवंविधमासीत्तदेव सम्प्रति कालेनैवंविधं विहितमिति का तत्र शरीरे आस्थेति भावः ।।१५।। गाथा - घणकम्मपासबद्धो, भवनयरचउप्पहेसु विविहाओ । पावइ बिडंबणाओ, जीवो को इत्थ सरणं से ।।१६।। व्याख्या - हे प्राणिन् ! अयं 'जीवः' प्राणी 'घनानि' प्रचुराणि, यानि कर्माणि तान्येव 'पाशा' बन्धनग्रन्थयस्तैः ‘बद्धः' संयतः सन् ‘भव'श्चातुर्गतिकसंसार एव नगरचतुष्पथानि, तेषु 'विविधा' अनेकप्रकाराः शरीरमनोदुःखदायिन्यो 'विट[विडम्बना' विगोपनानि वधबन्धादिरूपाणि प्राप्नोति, अतः “एत्थ" एतस्मिन्, संसारे "से" तस्य प्राणिनः कः शरणं ?, यदवष्टम्भाद्विगोपनानि स न प्राप्नुयादिति ।।१६।। गाथा - धोरंमि गब्भवासे, कलमलजंबालअसुइबीभच्छे । वसिओ अणंतखुत्तो, जीवो कम्माणुभावेणं ।।१७।। व्याख्या - 'घोरे' रौद्रे 'गर्भवासे' जनन्युदरैकदेशे अयं जीवः ‘कर्मणां' शुभाशुभरूपाणां 'अनुभावेन' प्रभावेण 'अनन्तकृत्वः' अनन्तवारान्, 'उषितः' स्थितः, किम्भूते गर्भवासे ?, 'कलमलो' जठरद्रव्यसमूहः, स एव 'जम्बाल:' कर्दमस्तेन 'अशुचि'रुद्वेजनीय-उद्वेगकारी, बिभत्सो' भयजनकस्तस्मिन् ।।१७।। गाथा - चुलसीई किर लोए, जोणीणं पमुहसयसहस्साइं । इक्किकमि अ जीवो, अणंतखुत्तो समुपनो ।।१८।। व्याख्या - किलेत्यागमोक्तौ, 'लोके योनीनां' जीवोत्पत्तिस्थानानां, चतुरशीतिः 'प्रमुखशतसहस्राणि' भेदलक्षाणि विद्यन्ते, 'जीवः' प्राणी, एकैकस्यां च योनावनन्तवारान् समुतान्नः ।।१८।। ८ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy