________________
गाथा - अडकम्मपासबद्धो, जीवो संसारचारए ठाइ । अडकम्मपासमुक्को, आया सिवमंदिरे ठाइ ।। १३ ।।
व्याख्या
हे आत्मन् ! अष्टसंख्यानि कर्माण्येव पाशास्तैः 'बद्धः' संयतोऽयं 'जीवः' प्राणी 'संसारचारके' भवरूपे बन्दिगृहे, 'तिष्ठति' आस्ते, अष्टकर्मपाशेम्यो 'मुक्तो' रहित आत्मा 'शिवमन्दिरे' मोक्षसौधे तिष्ठति, यदा आत्मा कर्मरहितो भवति तदैकसमयेन क्षेत्रान्तरमस्पृशन् मोक्षं प्रयातीति ।। १३ ।।
गाथा - विहवो सज्जणसंगो, विसयसुहाइं विलासललियाई । नलिनीदलग्गघोलिर-जललव-परिचंचलं सव्वं ।। १४ ।।
स्त्रियो विघटन्ते, तस्याः मरणेनाऽन्येन सह संयोगाद्वा, अन्यत्सर्वं विघटते, परमेको 'जिनभणित' स्तीर्थकृत्प्रणीतो धर्मः कथमपि विघटते, धर्मस्तु इहामुत्राऽपि सुखकारणत्वादात्मनो न वियुज्यत इति
भावः ।। १२ ।।
व्याख्या 'विभवो' धनं, तथा 'सज्जनानां' पितृमातृभ्रातृभार्यादीनां, ‘सङ्गः' सम्बन्धः, तथा 'विलासेन' लीलया 'ललितानि' मनोज्ञानि, 'विषयसुखानि' विषयसौख्यानि, एतत्सर्वं 'नलिनीदलाग्रे' पद्मिनीपत्रप्रान्ते, “घोलिरो” दोलनशीलो यो 'जललवः ' पानीयबिन्दुस्तद्वत् 'परिचञ्चलं' अतिशयेनाऽस्थिरं, यथा नलिनीपत्रप्रान्ते जलबिन्दुः स्तोकं कालमेव तिष्ठति, वायुना शीघ्रमेव पतनात्, तथा विभवादिकं सर्वमप्यस्थिरमित्यर्थः, “घूर्णो घुलल-घोल-घुम्म-पहल्लाः [८-४-११७]” इति [ हैम प्रा०] सूत्रेण घूर्णघातोर्घोल आदेशस्ततः शीलार्थे इरप्रत्ययः ।। १४ ।।
गाथा
-
-
[अथ] कानपि पूर्वं यूनो बलाद्युपेतान् दृष्ट्वा पश्चात्तानेव जरतो गलितशरीरान् वीक्ष्योपदेशमाह
तं कत्थ बलं तं कत्थ, जुव्वणं अंगचंगिमा कत्थ ? | सव्वमणिच्चं पिच्छह, दिट्ठे नट्टं कयंतेण ।। १५ ।।
७ वैराग्यशतकम्