________________
एवं खलु अम्हे अम्मयाओ ! एक्कारसवारा तं चेव जाव निययं घरं हव्वमागया तं इच्छामो णं अम्मयाओ ! तुन्भेहिं अब्भणुन्नाया समाणा दुवालसं लवणसमुदं पोयवहणेणं ओगाहित्तए । तते णं ते मागंदियदारए अम्मापियरो एवं वयासी - इमे भो जाया अज्जगपज्जगपिउपज्जयागए सुबहुहिरण्णे य, सुवन्ने य, कंसे य, दूसे य, विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए संतसारसावइज्जे, अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोत्तुं, तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसक्कारसमुदए, किं भे सपञ्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ? एवं खलु पुत्ता दुवालसमी जत्ता सोवसग्गा यावि भवति, तं माणं तुब्भे दुवे पुत्ता दुवालसंपि लवण जाव ओगाहेह, मा हु तुझं सरीरस्स वावत्ती भविस्सति ।
एवं खलु आवां लवणसमुद्रं पोतवहनेन एकादशवारान् अवगाढौ, सर्वत्रापि च लब्धार्थी, कृतकार्यों अनघसमग्रौ पुनरपि निजगृहं शीघ्रमागतो, तत् श्रेयः खलु आवयोः देवानुप्रिय ! द्वादशमपि (वारं) लवणसमुद्रं पोतवहनेनावगाहयितुमिति कृत्वाऽन्योऽन्यस्यैतमर्थं प्रतिशृणुतः, प्रतिश्रुत्य यत्रैव अम्बापितरौ तत्रैवोपगच्छतः, उपगम्यैवमवदताम्, एवं खलु आवां पितरौ ! एकादश वारान् तच्चेव यावत् निजकं गृहं शीघ्रमागतौ तत् इच्छावः पितरौ ! युवाभ्यामनुज्ञातौ सन्तौ द्वादशं (वारं) लवणसमुद्र पोतवहनेनावगाहयितुम् । ततस्तौ माकन्दिकदारको अम्बापितरौ एवमवदतामिदं जातौ ! आर्यकप्रार्यकपितृपर्यायागतं सुबहुहिरण्यं च सुवर्ण च कांस्यं च दुष्यं च विपुलधनकनकरत्नमणिमौक्तिकशङ्ख-शिलाप्रवालरक्तरत्नादिकं सत्सारस्वापतेयं अलं यावत् आसप्तमात् कुलवंशात् प्रकामं दातुं प्रकामं भोक्तुं (प्रकामं परिभाजयितुं) तदनुभवतं तावत् जातौ ! विपुलमानुष्यकऋद्धिसत्कारसमुदयं किं युवयोः सप्रत्यपायेन निरालम्बनेन लवणसमुद्रोत्तारेण ? एवं खलु पुत्रौ ! द्वादशी यात्रा सोपसर्गा चाऽपि भवति, तद् मा युवां द्वौ पुत्रौ द्वादशमपि (वारं) लवणसमुद्रं (पोतवहनेन) अवगाहयतम्, मा हु युवयोः शरीरयो:व्यापत्तिर्भविष्यति,
८७
इन्द्रियपराजयशतकम्