SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ व्याख्या - हे प्राणिनः ! 'छायामिषेण' निजनिजशरीरप्रतिबिम्बदम्भेन, अयं 'कालो' यमः सकलजीवानां ‘छलं' रन्ध्र ‘गवेषयन्' अवलोकयन् सन् ‘पार्श्व' प्राणिसमीपं कथमपि न मुञ्चति' न त्यजति, शरीरिणामियं छाया न भवति किन्तु यम एव रन्ध्र गवेषयति, कदाऽसौ स्खलेत् कदाऽहं गृह्णामीति वाञ्छया, “ता" इति तस्मात् यूयं 'धर्म' जिनप्रणीतेऽहिंसादिरूपे उद्यमं कुरुध्वं, यावद्यमेन गृहीता न वर्तध्वे तावत्किञ्चित्पुण्यं विदध्वमिति भावः ।।९।। गाथा - कालंमि अणाइए, जीवाणं विवहकम्मवसगाणं । तं णत्थि संविहाणं, संसारे जं न संभवइ ।।१०।। व्याख्या - ‘अनादौ' आदिरहिते ‘काले' परिवर्तनालक्षणे 'विविधकर्मवशगानां' विविधकर्मायत्तानां ‘जीवानां' प्राणिनां संसारे तत् ‘संविधानं' भेदो नास्ति यत् 'न सम्भवति' न घटते, अपि तु सर्वमपि घटत इत्यर्थः, जन्तुभिर्नानाजातिष्वनेकविधकर्मप्रेरितैः सर्वेऽपि भेदा एकेन्द्रियादयः प्राप्ता इत्यर्थः ।।१०।। गाथा - बंधवा सुहिणो सव्वे, पियमायापुत्तभारिया । पेयवणाउ नियत्तंति, दाऊणं सलिलंऽजलिं ।।११।। व्याख्या - सर्वेऽपि ‘बान्धवाः' स्वजनाः, 'सुहृदो' मित्राणि, मातापितरौ, प्राकृतत्वात्सूत्रे विपर्ययः, पुत्रभार्या, मृतं प्रति 'सलिलाञ्जलिं' जलतर्पणं, दत्त्वा 'पितृ प्रेत]वनात्' स्मशानात्, “निवर्तन्ते' व्याघुट्य स्वगृहमायान्ति, न पुनस्तेन सहाऽनुयान्तीति भावः ।।११।। गाथा - विहडंति सुआ विहडंति, बंधवा वल्लहा य विहडंति । इक्को कहविन विहडइ, धम्मो रे जीव ! जिणभणिओ ।।१२।। व्याख्या - ‘रे जीव !' आत्मन् !, 'सुताः' पुत्रा ‘विघटन्ते' वियुज्यन्ते, स्वस्मात्तेषां पूर्वमेव मृतत्वात्, तथा 'बान्धवाः' स्वजना विघटन्ते, तथा 'वल्लभाश्च' १. पेयवणाओ मुद्रितप्रते। ६ वैराग्यशतकम
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy