________________
इभ्योऽवादीद्गुरुस्त्वं मे, शिष्यस्तेऽहमतः परम् । सर्वं सम्पादयिष्यामि, निरवद्यं यदिच्छसि ॥७४।। व्याजहार कुमारोऽपि, सखे । तर्हि निरन्तरम् । षष्ठं कृत्वा करिष्येऽहमाचामाम्लेन पारणम् ।। ७५ ।। शिवस्य भावयतिनस्तदाद्यपि महेभ्यसूः । विनयं कर्तुमारेभे, सामाचारीविचक्षणः ।। ७६ ।। तपस्यतः शिवस्यापि, ययौ द्वादशवत्सरी । मोहात्पितृभ्यां न पुनर्व्यसर्जि गुरुसन्निधौ ।।७७।। मृत्वा शिवकुमारोऽभूद् ब्रह्मलोके महाद्युतिः । विद्युन्माल्यभिधानोऽयमिन्द्रसामानिकः सुरः । । ७८ ।। * इति ।।२०,२१।।
गाथा : तणकट्ठेहिव' अग्गी, लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेउं कामभोगेहिं ।। २२ ।।
व्याख्या : अयं जीवः कामभोगैस्तर्पयितुं प्रीणयितुमाशापूरणेन तोषयितुं न शक्यः = न सह्यः, कामभोगैरस्याशा न पूर्यत इत्यर्थः । कैः क इव ? तृणकाष्ठैरग्निरिव, तृणं च किलिञ्चादि, काष्ठानि च दारुखण्डानि, तैर्यथा अग्निस्तर्पयितुं न शक्यते, तथा नदीसहस्रैः सहस्रमित्युपलक्षणमनेकाभिरप्यापगाभिः समुद्रो लवणादिर्यथा न तर्प्पयितुं शक्यस्तथाऽयं जीवः कामभोगैरिति ।। २२ ।।
गाथा : भूत्तूणवि भोगसुहं, सुरनरखयरेसु पुण पमाणं । पिज्जइ नर भेरव - कलकल - तउतंबपाणाई ।। २३ ।।
व्याख्या : पुनर्विशेषे, विशेषेण प्रमादेन = निद्राविषयादिरूपेण, सुरनरखचरेषु सुराश्च खचराश्च=विद्याधरादयस्तेषु भोगसुखं भुक्त्वाप्यनुभूयापि कालान्तरे नरके भैरवकलकलत्रपुताम्रपानानि भैरवाणि रौद्राणि भयजनकानि कलकलेत्य१. वि खडड, ड, । २. नरएसु मुद्रिते
+ आ अपगच्छति, आपऊंअब्धिं गच्छति, अप्सम्बन्धिना वेगेन गच्छतीति आपगा । इमेऽष्टसप्ततिश्लोकाः परिशिष्टपर्वण उद्धृताः ।
*
इन्द्रियपराजयशतकम्
८२