SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ शिवोऽवदद् व्रतादानाद्देवोऽभूवं पुराप्यहम् । तदिहापि भवे पूर्वभववदेहि मे व्रतम् ।।४६।। आपृच्छय पितरौ यावदायामि व्रतहेतवे । पूज्यास्तावदिहैवाऽऽद्ध्वं, यदि यूयं कृपालवः ।।४७ ।। गत्वा शिवकुमारोऽपि, पितृपादान् व्यजिज्ञपत् । अद्य सागरदत्तः, शुश्रुवे देशना मया ।।४८।। तत्प्रसादादधिगता, भवस्याऽसारता मया । ततस्तस्माद्विरक्तोस्मि, वीवधादिव भारिकः ।।४९।। तत् सर्वथाऽनुजानीथ, प्रव्रज्याग्रहणाय माम् । प्रत्यूषो मोहतमसः, शरणं सागरोऽद्य मे ।।५०।। पितरावूचतुर्वत्स ?, व्रतं माऽऽदत्स्व यौवने । नाऽद्यापि पूर्यतेऽस्माकं त्वत्क्रीडाऽऽलोकजं सुखम् ।।५१।। अत्यन्तं निर्ममोऽभूस्त्वं कथमेकपदेऽपि हि । असंस्तुतानिवाऽऽयुष्मन् !, यदस्मान्विजिहाससि ।।५२।। यदि भक्तोऽसि यद्यस्मानापृच्छय च गमिष्यसि । तन्नकारैकवातूला, भवित्री रसनाऽऽवयोः ।।५३।। इत्यनादिशतोः पित्रोः, शिवो गन्तुमनीश्वरः । तत्रैव सर्वसावधनियमाद्भावयत्यभूत् ।।५४ ।। मुनेः सागरदत्तस्य, शिष्योहमिति निश्चयी । तस्थौ स मौनमालम्ब्य, मौनं सर्वार्थसाधकम् ।।५५ ।। बलादप्यासितो भोक्तुं, न किञ्चिद् बुभुजे च सः । मह्यं न रोचते किञ्चिदित्येवमवदन्मुहुः ।।५६।। एवमुद्वेजितो राजा, शिवेन शिवकाक्षिणा । इभ्यपुत्रं दृढधर्मं समाहूय समादिशत् ।।५७ ।। व्रतार्थमविसृष्टेन, शिवेन तनयेन मे । मौनमालम्बितं वत्स!, ग्रावनिष्ठुरचेतसा ।।५८ ।। मोघफाल इव द्वीपी, करीव प्रभवन् मदः । भोजनायापि यतते, न स चाटुशतैरपि ।।५९।। १. यद्यस्माननापृच्छ्य खडड ड । * यूयं मयि कृपालवः परिशिष्टपर्वणि (१/४३६) । KAKKKEREKKEKKEKKREKKEREKKEKREKKKREKKEk ८० इन्द्रियपराजयशतकम् |
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy