SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 'द्वितीयातृतीययोः सप्तमी (सि० ८-३-१३५) इति द्वितीयातृतीययोः स्थाने क्वचित् सप्तमी भवति । गामे वसामि, नयरे न जामि, अत्र द्वितीयायाः । *मइ वेविरीए मलिआई, तिसु तेसु अलंकिआ पुहई, अत्र तृतीयायाः । अभोगी = भोगेभ्यो विरतो नोपलिप्यते न काश्लिष्टो भवतीति । भोगी संसारे भ्रमति, अभोगी विप्रमुच्यते कर्मेभ्यः आत्मा वियुज्यत इत्यर्थः ।।१९।। गाथा : अल्लो सुक्को अ दो छूढा' गोलया मट्टियामया । दोवि आवडिया कूडे, जो अल्लो सो तत्थ लग्गई ।।२०।। एवं लग्गति दुम्मेहा जे नरा कामलालसा । विरत्ताओ न लग्गति, जहा सुक्के अ गोलए ।।२१।। व्याख्या : आर्द्रः शुष्कश्च द्वौ मृन्मयौ गोलको वृत्ताकारौ, केनचित् क्षिप्तौ = करान्मुक्तो, द्वावपि कुड्ये = भित्तौ, आपतितौ = आश्लिष्टौ, तत्र य आर्दो गोलकः स तत्र लगति कुड्येन सह संपृक्तो भवति । एवमनेन प्रकारेण ये नराः कामलालसाः = कामलम्पटा: दुर्मेधसो दुर्बुद्धयस्ते लगन्ति स्त्र्यादिभिः सह संयुज्यन्त इत्यर्थः । विरक्ताः पुनः शिवकुमारवत् स्रीभिः परिवृत्ता अपि न लगन्ति, न तास रागमतिं कुर्वन्तीति भावः । किंवत् ? यथा शुष्कश्च गोलकश्च, शुष्कगोलको हि कुड्ये न लगति, तथा विरक्ता इति । शिवकुमारकथा चेयम्इतश्च भवदत्तस्य जीवः स्वर्गात्परिच्युतः । विजये पुष्कलावत्यां विदेहोवीशिरोमणौ ।।१।। नगर्यां पुण्डरीकिण्यां, वज्रदत्तस्य चक्रिणः । यशोधराभिधानाया, राज्याः कुक्षाववातरत् ।।२।। युग्मम् ।। तस्मिन्नुपागते कुक्षिसरोवरमरालताम् । अभूद्यशोधरादेव्या, दोहदोऽम्भोधिमज्जने ।।३।। ततश्चाऽम्भोधिसध्रीच्यां", सीतानद्यां महीपतिः । क्रीडयित्वा महादेवीं तद्दोहदमपूरयत् ।।४।। १. छड्डा मुद्रिते । * तृतीयाया अर्थे सप्तमी भवति "मया वेपमानया मर्दितानि, तैः त्रिभिः अलङ्कता पृथ्वी । ** सह अञ्चति = गच्छति इति क्विप्, 'सहसमः सघ्रिसमि' (सि०३-२-१२३) सूत्रेण सहादेशः सघ्रिः, 'अञ्चः' (सि०२-४-३) सूत्रेण स्त्रीलिङ्गे डीः, अश्व प्राग्दीर्घश्च' (सि० २-१_१०४) सूत्रेण अलोपे पूर्वदीर्घत्वे च सघ्रीची = सहचरी, भार्या, सखी वा ।। ७६ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy