________________
गाथा : सव्वं विलविअंगीअं, सव्वं नर्से विडंबियं ।
सव्वे आभरणा भारा सब्वे कामा दुहावहा ।।१६।। व्याख्या : सर्वं विलपितं विलपितप्रायं निरर्थकतया गीतम्, मत्तबालकगीतवत् । सर्वं
नृत्यं विडम्बितं विडम्बनाप्रायम्, यक्षाधिष्ठपीतमद्याद्यङ्गविक्षेपवत्" सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम्, तथाहि-कस्यचित् श्रेष्ठिपुत्रस्य भार्या प्रणयवत्यासीत्, साऽन्यदा निजश्वश्चा शिलापुत्रकं गृहमध्यादानायिता, तयोक्तं न शक्नोम्यहमेनमतिभारकमानेतुम्, ततस्तद्भर्त्ता तच्छ्रुत्वा 'अहो एतस्याः शरीरव्यायामरक्षणायालीकवनोत्तरदानम्, तच्छिक्षयाम्येनाम्, इति विचिन्त्य, ‘मठयित्वाऽसौ शिलापुत्रकः सुवर्णेन समर्पितस्तस्याः, तया च कण्ठाभरणीकृतः । अन्यस्मिन्नहनि स्मारितं तद्वचस्तेनेषत् स्मित्वा तस्याः । विलक्षीभूताऽसाविति । तथा सर्वे कामा दुःखावहा मृगादीनामिवायतौ दुःखहेतुत्वान्नरकहेतुत्वाञ्चेति ।।१६।।
गाथा : देविंदचक्कवट्टित्तणाइ, रज्जाइ उत्तमा भोगा ।
पत्ता अणंतखुत्तो, न य हुं तत्तिं गओ तेहिं ।।१७।। व्याख्या : रे जीव ! त्वया 'देवेन्द्रचक्रवर्तित्वे राज्यानि, चस्य गम्यमानत्वाद्,
उत्तमाः प्रधाना भोगाश्च अनन्तकृत्वोऽनन्तवारान् प्राप्ताः । प्रकरणात् देवत्वे मनुष्यत्वे च, देवत्वमनुष्यत्वयोर्जातेरनन्तवारान् प्राप्तेर्घटनाद्रो
गानामप्यनन्तकृत्वः प्राप्तिर्घटत एव यतः१. निक्षेपवत् ख । २ वष्टोत्तर खडड ड, । ३. हं मुद्रिते । ४. देवेन्द्रत्वे चक्रवर्तित्वे च राज्यादि
- आदिशब्दाद्विषयसुखानि विभक्तिविपरिणामात् । प्राप्तं-लब्धम्, तथा चस्य... ड, । * विक्षेपः = धमपछाड, लथडीया इति भाषायाम् । + मठयित्वा = मठारीने इति भाषायाम् ।
७४ इन्द्रियपराजयशतकम्