________________
गाथा : पत्ता य कामभोगा, सुरेसु असुरेसु तह य मणुएसुं ।
नय तुज्झ जीव ! तित्ती, जलणस्स व कट्ठनियरेण ।।१४।।
व्याख्या : रे जीव ! त्वया सुरेषु वैमानिकदेवेषु तथा असुरेषु पातालवासिषु दशसु
भवनपतिषु देवेषु । तथैव चोऽवधारणे । मनुष्येषु कामभोगाः काम्यन्त इति कामाः शब्दादयस्त एव भोगाः कामभोगाः, यद्वा कामाः शब्दरूपाणि भोगाः गन्धरसस्पर्शाः पश्चाद् द्वन्द्वः, कामभोगाः प्राप्ताः लब्धाः, चः पादपूरणे, परं तृप्तिर्वाञ्छानिवृत्तिर्न च जाता, यतः - अन्नेषु जीवितव्येषु, भोगेषु च धनेषु च । अतृप्ता जन्तवः सर्वे, याता यास्यन्ति यान्ति च ।।१।।[ ] केन ? कस्येव ? काष्ठनिकरेण दारुसमूहेन, ज्वलनस्येवाऽग्नेरिव, यथा काष्ठवृन्देन नाग्निः शाम्यति । यतः - नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।। नान्तकः सर्वभूतानां न पुसां वामलोचना ।।२।।१४।।
[भर्तृ० सुभाषितसंग्रह
गाथा : जहा य किंपाकफला, मणोरमारसेण वण्णेणय भुंजमाणा।
तेखुट्टए जीविअ पञ्चमाणा, एओवमा कामगुणाविवागे।।१५।।
व्याख्या : यथा च यथैव । किम्पाकफलानि, अपेर्गम्यमानत्वात् मनोरमाण्यपि रसेन
वर्णेन, च शब्दाद् गन्धादिना च भुज्यमानानि । तानि लोकप्रतीतानि । 'खुट्टईत्ति आर्षत्वात् क्षोदयन्ति विनाशयन्ति । जीवितं पच्यमानानि विपाकावस्थाप्राप्तान्येतदुपमाः कामगुणा विपाके विपाकदारुणतासाम्येन तत्तुल्या इति ।।१५।।
-
१. खुड्डए मुद्रिते । २. एसोवमा मुद्रिते । * तृप्यति-तृप्तिमनुभवति = अग्निः काष्ठानां तृप्तिं नानुभवति, अर्थात् काष्ठेर्न तृप्यति इति ।
७३
इन्द्रियपराजयशतकम्