________________
गाथा
व्याख्या
गाथा
व्याख्या
गाथा
1
-
साथ कला तं नत्थ, उसहं तं नत्थि किंपि विन्नाणं ।
जेण धरिज्जइ काया, खज्जंती कालसप्पेण ||७||
सा नास्ति कला द्वासप्ततेरन्यतरा, तच्च 'औषधं' अगदो नास्ति, तत् किमपि 'विज्ञानं ' शिल्पं नास्ति, येन कलादिना 'कालो' मृत्युरेव सर्पस्तेन 'खाद्यमानो' भक्ष्यमाणः 'कायो' देहो 'ध्रियते' तत्खादनाद्रक्ष्यते ।।७।।
दीहरफणिंदनाले, महियरकेसरदिसामहदलिल्ले । ओ ! पियइ कालभमरो, जणमयरंदं पुहविपउमे ||८||
'ओ' इति पश्चात्तापे अव्ययं, काल एव 'भ्रमरो' भृङ्गः, पृथिव्येव पद्मं, तस्मिन् 'जना' लोका एव 'मकरन्दो' रसस्तं पिबति, अन्योऽपि भ्रमरः पद्मे मकरन्दं पिबत्येव, तथाऽयं काल एव भृङ्गो भूरूपकमले जनमकरन्दं ग्रसत इति भावः, यतः
'दुपयं चउप्पयं बहु-पयं च अपयं समिद्धमहणं वा ।
अणवक विकतो, हरइ हयासो अपरितंतो । । १ । । "
किंभूते पृथ्वीपद्मे ?, 'दीर्घं' आयतं 'फणीन्द्र एव' शेष एव 'नालं' मृणालं, यस्य तत्तस्मिन् दीर्घफणीन्द्रनाले, इदं च लोकोक्त्या विशेषणं, तथा 'महीधराः ' पर्वता एव 'केसराणि किञ्जल्कानि यत्र तत्तस्मिन् महीधरकेसरे, प्राकृतत्वाद्विभक्तिलोपः, तथा 'दिश एव' आशा एव, 'महान्ति, बृहन्ति, 'दलानि पत्राणि यस्मिन् तत्तस्मिन् दिङ्महाले, स्वार्थे इल्लप्रत्ययः, “ओ सूचनापश्चात्तापे” [४-२-२०३] इति [ हैम ] प्राकृतव्याकरणे।।८।।
छायामिसेण कालो, सयलजियाणं छलं गवेसंतो ।
पास कहवि न मुंचइ, ता धम्मे उज्जमं कुणह ।।९।।
१. ओसहं मुद्रितप्रते । २. उअ इत्यपि पाठः ।
वैराग्यशतकम्