________________
गाथा : जह निंबडुमुप्पण्णो', कीडो कडुअंपि मन्त्रए महुरं ।
तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिंति ।।१२।।
व्याख्या : यथा निम्बुद्रुमोत्पन्नः निम्बद्रुमोऽरिष्टवृक्षस्तस्मादुत्पन्नो जातः । कीट:
क्षुद्रजन्तुः । कटुकमपि ओषणमपि रसम् । मधुरं गुल्यम् । मन्यते मनुते आलोचयत इत्यर्थः । तथेति सादृश्ये । सिद्धिसुखपरोक्षाः सिद्धिसुखं मुक्तिसौख्यं परोक्षमप्रत्यक्षं येषां ते सिद्धिसुखपरोक्षाः सिद्धिसुखानिच्छव इत्यर्थः । संसारदुःखं धनोपार्जनादिरूपम् । सुखमिति ‘बिंति'त्ति ब्रुवन्ति कथयन्ति परेषां पुरत इति । यतः - अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थं दुःखसाधनम् ।।१२।।। ] गाथा : अथिराण चंचलाण य खिणमित्तसुहंकराण पावाणं ।
दुग्गइनिबंधणाणं विरमसु एयाण भोगाणं ।।१३।। व्याख्या : रे आत्मन् ! ‘एयाण भोगाणं ति पञ्चम्यर्थे षष्ठी, “क्वचिद् द्वितीयादेः” इति
द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति, 'चौरस्स बीहइ = चोराद्विभेतीत्यर्थः' इतिवत्, एतेभ्यो भोगेभ्यस्त्वं विरम निवर्तस्व । अथ निवर्त्तनोपदेशदाने कारणमाह- किं भूतेभ्यो भोगेभ्यः ? अस्थिरेभ्योऽचिरस्थायिभ्यस्तथा चञ्चलेभ्यश्चटुलेभ्य एकार्थिकाविमावतिशयद्योतनार्थी अतिशयेन चञ्चलेभ्य इत्यर्थः । तथा क्षणमात्रं क्षणं यावत् सुखकरान् प्रियंकरान् प्राकृतत्वादलाक्षणिको मुमागमः, तथा पापेभ्य; पापरूपेभ्य; अनिष्टरूपेभ्य इत्यर्थः, तथा दुर्गतिनिबन्धनेभ्यो नरकादिदुर्गतिकारणेभ्यश्चञ्चलत्वं क्षणसुखकारित्वं पापत्वं दुर्गतिकारणत्वं च भोगानां विरमणे हेतुरिति ।।१३।।
१. निंबदुमु० मुद्रिते ।
७२
इन्द्रियपराजयशतकम्