________________
व्याख्या : हुनिश्चये ज्वलितोऽपि घृतमधुसेकादुद्दीपितोऽप्यग्निर्विभावसुर्वारिणा जलेन
निवारयितुं शमयितुं शक्यः । परमयं कामाग्निर्वामधूभूविक्षेपाधुद्दीपितः सर्बोदधिजलेनापि समग्रपारावारवारापि दुनियों न शाम्यति अग्नित्वसाम्यादेवं वचनोपन्यासोऽन्यथा सर्वोदधिवारिणापि दुनिर्वार्य
इत्येतदनुचितमेव कथनम् ।।९।। गाथा : विसमिव मुहंमि महुरा, परिणामनिकामदारुणा विसया ।
कालमणंतं भुत्ता, अज्जवि मुत्तुं न किं जुत्ता ।।१०।। व्याख्या : रे आत्मन् ! अमी विषया विषमिव क्ष्वेड इव मुखे आपाते मधुरा मृष्टाः ।
परं 'परिणामनिकामदारुणाः' परिणामे तद्विपाककाले निकाममतिशयेन दारुणा रौद्राः, क्षेत्रजाऽन्योन्यकृतायुधज-परमाधार्मिकजनितनरकदुःखजनकत्वेन रौद्रता तेषाम्, यथा विषं मुखे प्रथमं रसनायोगे माधुर्यं दर्शयति, परं विपाके दुःखजनकम्, तथाऽमी अपि कमप्युपदेशविषयीकृतं पुरुषमुपदिशति - रे भव्य ! देवानुप्रिय ! अनन्तमपर्यन्तकालं भुक्ता अपि अमी विषया अद्यापि मोक्तुं 'किं' क्षेपे क्षेपो निन्दा न युक्ता=न घटन्ते । अयमर्थोऽनन्तकालं भुक्ता अपि विषयास्तृप्तिं न चक्रुस्तर्हि अल्पकालमासेव्यमाना मानुषे भवे कां तृप्तिं जनयिष्यन्ति ततस्त्याज्या एवेत्युपदेशः ।।१०।।।
गाथा : विसयरसासवमत्तो, जुत्ताजुत्तं न याणइ जीवो ।
झूरइ कलुणं पच्छा, पत्तो नरयं महाघोरं ।।११।। व्याख्या : अयं जीवो विषयरस एव आसवो मैरेयस्तेन मत्तो विकलतामाप्तो युक्ताऽयुक्तं
सदसद्रूपं न जानाति न परिच्छिनत्ति यथाऽऽसवपानेन' पारवश्यमाप्तो न सदसती विचारयति तथाऽयमपि विषयासक्त इति । पश्चान्मरणानन्तरं महाघोरमतिरौद्रं नरकं प्राप्तः । करुणं विवेकिनां कृपाकारणं दीनवाक्यं यथा स्यात्तथा । 'झूरइ' त्ति स्मरति, 'किमिति मया मनुष्यभवे लब्ध्वा धर्मसामग्री विषयासक्तिर्विहिता येन दुःखितोऽन्वहं तिष्ठामि' इति स्मरणम् । कलुणमिति
"हरिद्रादौ लः” (सि० ८-१-२५४) ।।११।। १. यथा मदपानेन ड। RRRRRRRRRRRRRRRRRRRREk ७१ इन्द्रियपराजयशतकम्