SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ गाथा : मज्झण्हे मियतिण्हिअव्व सययं मिच्छाभिसंधिप्पया । भुत्ता दिति कुजम्मजोणिगहणं भोगा महावेरिणो ।।८।। व्याख्या : मध्याह्ने 'दिवसयौवने "मृगतृष्णेव मरुमरीचिकेव सततं-निरन्तरं भोगा इति भुज्यन्त इति भोगाः शब्दादयो मिथ्याभिसन्धिप्रदाः मिथ्याभिसन्धिं मिथ्याभिप्रायमसद्बुद्धिं' प्रददतीति मिथ्याभिसन्धिप्रदाः । स्तनौ मांसग्रन्थी कनककलशावित्युपमिती, मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् । श्रवन्मूत्रक्लिन्नं करिवरकरस्पर्द्धिजघनं, मुहुनिन्धं रूपं कुकविकुविकल्पैर्गुरुकृतम् ।।१।। [भर्तृ० वैराग्यशतक गाथा-२०] यथा मध्याह्ने मृगतृष्णा असती जलबुद्धिं जनयति तथाऽमी भोगा दुःखरूपा अपि सुखबुद्धिं जनयन्तीति भावः । तथा भोगा भुक्ताः सेविताः सन्तः कुजन्मयोनिग्रहणं कुत्सितं एकस्मिन् श्वासोच्छ्वासे साधिकसप्तदशवारजननमरणरूपं जन्मोत्पत्तिर्यासु, एवंविधा योनयो भूजलादिरूपोत्पत्तिस्थानानि, तासां ग्रहणं स्वीकारस्तद्ददति । कुजन्मयोनिगहनं कुजन्मयोनिकान्तारमिति वा व्याख्येयं, कामाऽऽसक्तो जन्तुविविधयोनिषूत्पद्यत इत्यर्थः । अत एव महावैरिण इव महावैरिणः यथा महावैरिणो दुःखं जनयन्ति, तथाऽमी भोगाः कुयोनिजननद्वारा दुःखीकुवन्तीति भावः ।।८।। गाथा : सक्का अग्गी निवारेउं, वारिणा जलिओवि हु' । सव्वोदहिजलेणावि, कामग्गी दुनिवारिओ ।।९।। १. दिनयौवने डड, । २.० मसत्तद्बुद्धि डड डड, ३. वारिणो जलओ मुद्रिते । ४. दुनिवारओ मुद्रिते । * स्वार्थकप्रत्ययान्तस्य मृगतृष्णिकाशब्दस्य मृगतृष्णाशब्दत एव निष्पत्तेः द्वावपि शब्दौ सिद्धावेव । ७० इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy