SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ भवकोटिभिर्जन्मकोटिभिरपि । 'न निट्ठइ' त्ति न निष्ठां नाशं याति न पूर्णीभवतीत्यर्थः । तथाचानेकार्थः - निष्ठोत्कर्षव्यवस्थयोः ।। क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते' [अनेकार्थसंग्रहे २-१०८] ततो यज्जानीषे यदुध्यसे तत्कुरुष्व उभयमप्यवलोक्य यदात्महितं तद्विधेहीति गुरूपदेशः, गुरवश्च यत्परिणामसुखमापातेऽप्रियं तत्प्ररूपयन्ति । यदुक्तम् - वैद्यो गुरुश्च मन्त्री च, यस्य राज्ञः प्रियंवदाः । शरीरधर्मकोशेभ्यः, क्षिप्रंस परिहीयते ।१।।६।। गाथा : भुंजंता महुरा विवागविरसा किंपागतुल्ला इमे । कच्छूकंडुअणं व दुक्खजणया दाविति बुद्धिं सुहे ।।७।। व्याख्या : इमे प्रकरणात् सकलसंसारिजीवप्रत्यक्षाः कामाः ‘भुंजंता' इति भुज्यमाना अनुभूयमाना मधुरा मृष्टा मुखे सुखकारिणो भवन्ति विपाके (च) तत्फलोदयावस्थायां विरसा वैरस्यभाजो विरागताजनका इत्यर्थः. । किम्पाकतुल्याः किम्पाकफलोपमा यथा किम्पाकफलानि भुज्यमानानि= आस्वाद्यमानानि रसेन वर्णेन शब्दाद् गन्धादिना च मनोरमाण्यपि विपाके विरसताहेतवस्तथाऽमी कामा अपि । तथा कामाः कच्छूकण्डूयनानीव पामाकण्डूया इव दुःखजनकाः । सुखे बुद्धिं ‘दाविंति' त्ति दर्शयन्ति यथा *पामां कण्डूयमानो नखादिभिः दुःखं तदुपतप्तिरूपं मन्यते सौख्यं तथा मोहातुराः कामदुःखं सुखं ब्रुवते 'स्वतोषात्परस्मै कथयन्ति । 'दाविंतित्ति दृशेर्दावदंसदक्खवाः (सि० ८-४-३२) इति दृशेर्ण्यन्तस्य दावाऽऽदेशः ।।७।। - १. स्वातोषा. ड। * ताभ्यां वाऽऽप् डित् (सि० २-४-१५) सूत्रेण मत्रन्ताच्छब्दात् स्त्रियां डाप् वा भवति, अतः पामन्वत् पामाशब्दोऽप्यस्ति । ६९ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy