________________
गाथा : इंदियधुत्ताणमहो, तिलतुसमित्तंपि देसु मा पसरं ।
जइ दिनो तो नीओ, जत्थ खणो वरिसकोडिसमों ।।३।।
व्याख्या : रे आत्मन् 'अहो' इति आश्चर्ये । इन्द्रियधूर्तानां इन्द्रियाण्येव धूर्ताः
कितवास्तेषाम् । तिलतुषमात्रमपि अत्यल्पमपीत्यर्थः । मा इति निषेधे । प्रसरं = स्वस्वविषयेषु प्रवर्तनम् । मा देसु मा दद्याः । इन्द्रियधूर्तवशगो मा भूया इत्यर्थः । यदि त्वया तत्र प्रसरो दत्तस्तदा त्वं तत्र नीतः प्रापितो यत्र नरकादौ क्षणः कालविशेषो नाडिकाषष्ठांशो मुहूर्तो वा वर्षकोटिसमो वर्षकोट्या संवत्सरशतसहस्रेण समस्तुल्यः, यत्रैकोपि क्षणो दुःखाकुलतया वर्षकोटिसमानो भवतीति भावः । सुस्थितानां गच्छन्नपि कालो नाकलनीयः स्यादनुत्तरवासिदेवानामिव, नरकावस्थितानां च क्षणोऽपि न पूर्तिमायाति, अत एव ते ततो निर्गमनमीहमाना अपि नारका न निर्गन्तुमीशते, तथा चोक्तं श्रीराजप्रश्नीयोपाङ्गे :चउहि ठाणेहिं पएसी ! अहुणोववत्रए नरएसु नेरइए इच्छेन माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ १ अहुणोव्वत्रए नरए नेरइए से णं तत्थ सुमहन्भूए वेयणं वेदेमाणे इच्छेज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ २, अहुणोववत्रए नेरइए णरयपालेहिं भुजो भुजो समाहिद्विजमाणे इच्छइ माणुसं लोगं हब्वमागच्छित्तए नो चेव णं संचाएइ ३ अहुणोववन्नए* (एवं) णरएसु णेरड़ए णरयाउयंसि कम्मंसि अखीणंसि अवेइअंसि अणिजिनसि इच्छइ माणुसं लोगं णो चेव णं संचाएइ ४ 'इछेइएहिं चउहिं ठाणेहि पएसी ! अहुणोववने नरएसु नेरइए इच्छइ माणुसं लोग.... नो चेव णं संचाएइत्ति ।।३।।
१. वरस० मुद्रिते । २. तदासत्तिं खडड | ३. क्षणो न खड़,
नरएसु नरइए णिरयवेयणिजंसि कम्मंसि अक्खीणंसि अवेइयंसि, अणिज्जिनंसि इच्छइ माणुसं लोगं
हव्वमागच्छतिए नो चेव णं संचाएइ ३ । + हव्वमागच्छित्तए इति राजप्रश्नीयोपाङ्गे ।
६६
इन्दियपराजयशतकम