SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ।। इन्द्रियपराजयशतकम् ।। गाथा : प्रणम्य मृगलक्ष्माणं, पञ्चमं चक्रधारिणम् । श्री शान्तिमचिरासूनुमचिराच्छान्तिकारिणम् ।।१।। गाथा : वाञ्छितार्थप्रदाने यश्चिन्तामणिसमक्रियः । श्रीचिन्तामणिपावों मे, स्ताद्विघ्नध्वंसकारकः ।।२।। गाथा : सन्निधत्तां गिरां सम्यगीश्वरा शारदाभिधा । यस्याः प्रसादतः शास्त्रबोधे स्याद्विशदा मतिः || ३ || गाथा : योगिनीनां चतुष्षष्टिर्येन जिग्ये महात्मना । स श्रीमात्र जिनदत्ताह्वः प्रसीदतु दयानिधिः ||४॥ गाथा : पथि पाथः प्रदानेनापथो * नीवृति पप्रथे । यद्यशोराशिरुन्निद्रबोधाय कुशलप्रभुः ।।५।। गाथा : युगप्रधान सूरीन्द्रजिनचन्द्रगुरुर्गुरुः । गाथा : अनूचानसमीचीनपदप्रौढिभृतो गुरोः । सौम्यां दृष्टिं विधत्तां मे शुभयोगो हि सिद्धिदः । । ६ ।। श्रीमज्जयसोमाख्यस्यादेशाल्लेशेन लिख्यते ।।७। प्राच्याचार्यविनिर्मितखशतकविवृतिर्विचार्य निजमत्या । स्वपरावबोधहेतोः श्रमं महान्तः सफलयन्तु ।।८ । । युग्मम् ।। तत्रादौ गाथेयम् । गाथा : सोझिय सूरो सो चेव, पंडिओ तं पसंसिमो नि इंदिअचोरेहि सया, न लुंटिअं जस्स चरणधणं ॥ | १ || व्याख्या : स एव शूरश्चारभटः । तथा चः समुच्चये, एवोऽवधारणे, स एव पण्डितः । पण्डा तत्त्वानुगामिनी मतिर्यस्य स पण्डितः । तथा तं नित्यं १. सुचिय मुद्रिते । २. चोरेहिं मुद्रिते । * निवृदिति समृद्धो देशः, राजधानी, राज्यविभागते वा इति शब्दरत्नमहोदधौ । ] अनूचानः प्रवचने साङ्गेधीती गणिश्च स इति अभिधानचिन्तामणी ७८ तमश्लोके । इन्द्रियपराजयशतकम् ६३ -
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy