________________
- 'स्नेहानुरागेण' प्रेमबन्धेन रक्ता अपि, आसतामन्ये, ये स्वजनादयः 'पूर्वाह्ने' प्रातःकाले, दृष्टास्त एव 'अपराह्ने' सन्ध्यायां न दृश्यन्ते, स्नेहानुरागरक्तानां किल वियोगासंभवात्त एवोक्ताः, परं संसारस्य क्षणदृष्टनष्टत्वात्तेऽपि वियुज्यन्त इति भावः ।।४।।
गाथा - मा सुअह जग्गियव्वे, पलाइयव्वंमि कीस वीसमेह ।
तिण्णि जणा अणुलग्गा, रोगो अजरा अमच्चू अ ।।५।।
व्याख्या - भो लोका ! जागरितव्ये-धर्मकर्मणि कर्तव्ये इति भावः, तत्र ‘मा स्वपिथ' मा
शेध्वं, न प्रमादितव्यमिति भावः, ‘पलायितव्ये' अस्मात्संसारात् 'प्रनष्टव्ये, 'कस्माद्विश्राम्यथ ?' कथमस्मिन् संसारे खेदापनयनं कुरुध्वमिति भावः, कथं ?, यतस्त्रयो जना भवतां 'अनुलग्नाः' पृष्ठतो लग्नाः-प्रवृत्ताः, वर्तन्त इति शेषः, ते के ? इत्याह ‘रोगश्च' अतीसारादिः, जरा च' वयोहानिः, ‘मृत्युश्च' मरणं, एवंविधास्त्रयोऽपि जना अनुलग्ना, अतो धर्मे न प्रमादो विधेय इति भावः, अन्योऽपि जागरितव्ये स्थाने न स्वपिति पलायितव्ये च न विश्राम्यतीति छाया[भावा]र्थः, जना इति लोकोक्त्या उक्तं, अन्यथैषामात्मधर्मत्वादिति ।।५।।
गाथा - दिवसनिसाघडिमालं, आउस्सलिलं' जियाण घेत्तूणं ।
चंदाइञ्चबइल्ला, कालऽरहट्टे भमाडंति ।।६।। व्याख्या - ‘चन्द्रादित्यावेव' शशिभास्करावेव, ‘बलीवर्दी' वृषभौ,
प्राकृतत्वाद्विभक्तिपरिणामो, 'दिवसाश्च निशाश्च' [दिवसनिशा], ता एव 'घटिमाला' कुम्भपङ्क्तिस्तया, जीवानां ‘आयुः' जीवितमेव सलिलं 'गृहीत्वा' आदाय काल:' परिवर्तनालक्षणः, स एव अरघट्टस्तं भ्रमयतः' परिवर्तयतः, पुनरुच्चैः पुनर्नीचैरित्येवमिति ।।६।।
१. षान्तस्य नशेर्णत्वाभावः “मस्जिनशोझलि [७-१=६०] इति [पाणिनीय सूत्रेण] नुम् ।
२. आउं सलिलं मुद्रितप्रते ।
४
वैराग्यशतकम्