________________
व्याख्या - श्रीजिनेन्द्रधर्मे 'प्रत्यक्षं' साक्षादनन्तगुणा इहलोके यशःप्रभृतिप्राप्तिः परलोके
च स्वर्गमोक्षसौख्यावाप्तिः, नाऽस्मिन् दोषाणां-अयशःप्रभृतीनां 'लेशोऽपि' लवोऽपि' लवोऽपि, तथापि, ‘हुः निश्चये 'अज्ञानेन' यथावत्स्वरूपानवबोधेन, अन्धा जीवाः कदाऽपि तस्मिन्' जिनेन्द्रधर्मे 'न रमन्त एव' न धृति बन्धन्त्येव, अज्ञानित्वादेव ।।९।।
गाथा - मिच्छे अणंतदोसा, पयडा दीसंति नवि य गुणलेसो ।
तहवि य तं चेव जिया, ही ! मोहंधा निसेवंति ।।१८।।
व्याख्या - 'मिथ्यात्वे' कुगुरुकुदेवकुधर्माङ्गीकाररूपाध्यवसाये अनन्तदोषा नरक
पातादयः 'प्रकटाः' स्पष्टा दृश्यन्ते, नापि च गुणस्य 'लेशो' लवो दृश्यते, 'तथापि च' एवं जानन्तोऽपि 'ही' इति विस्मये विषादे वा, मोहेन'
अज्ञानेनाऽन्धाः सन्तो जीवास्तदेव मिथ्यात्वं 'निषेवन्ते' आश्रयन्ति ।।९८ ।। गाथा - धिद्धी ताण नराणं, विनाणे तह गुणेसु कुसलत्तं ।
सुहसञ्चधम्मरयणे, सुपरिक्खं जे न जाणंति ।।१९।। व्याख्या - तेषां नराणां 'विज्ञाने' शिल्पे 'कुशलत्वं' नैपुण्यं धिग् धिक्, किं तेषां
शिल्पकौशलेन ?, तथा ‘गुणेषु' शौर्योदार्यधैर्यादिषु कुशलत्वं धिग् धिक्, कथं तेषां धिक्त्वमित्याह-ये पुरुषाः 'शुभं' शुभकारि, तथा 'सत्यं' सत्यरूपं, एवंविधं यद्धर्मरत्नं, तस्मिन् ‘सुपरीक्षां' सत्परीक्षणं, 'न जानन्ति' नाऽवबुध्यन्ते, यथाऽयं धर्मः श्रेयान् उतायं धर्म इति परीक्षाविकलास्तेषामन्यत्र कुशलत्वमपि धिग्, यदुक्तं“बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सव्वकलाणं पवरं, जे धम्मकलं न याणंति ।।१।।" ।।९९।।
गाथा - जिणधम्मोऽयं जीवाणं, अपुब्बो कप्पपायवो ।
सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ।।१०।। १. धी धी इत्यपि पाठः ।
५८
वैराग्यशतकम्