________________
तत एतस्याऽपि च वर-मयमुपकर्ताऽस्तु मास्म भूदफलः । इय करुणारसियमई-सिट्ठिसुओ भणइ आभीरं ।।१९।। यदि भद्र ! मम न दत्से, चिन्तामणिमेनमात्मनाऽपि ततः । आराहसु जेण तुहं, पि चिंतियं देइ खलु एसो ।।२०।। इतरः प्रोचे यदि सत्यमेष चिन्तामणिर्मयाऽचिन्ति । ता बोरकयरकञ्चरपमुहं मह देउ लहु बहुयं ।।२१।।
अथ हसितविकसितमुखः, श्रेष्ठिसुतः स्माह चिन्त्यते नैवम् । किंतुववासतिगंऽतिम-रयणिमुहे लित्तममाहिवीढे ।।२२।। शुचिपट्टनिहितसिचये, स्नपितविलिप्तं मणिं निधायोच्चैः । कप्पूरकुसुममाई-हि पूइउं नमिय विहिपुव्वं ।।२३।। तदनु विचिन्त्यत इष्टं, पुरोऽस्य सर्वमपि लभ्यते प्रातः । इय सोउं सो वाले-वि छालिया गाममभिचलिओ ।।२४ ।। न स्थास्यति हस्ततले-ऽस्य मणिर(यं)नूनमूनपुण्यस्य । इय चिंतिय सिट्ठिसुओ, वि तस्स पुटिं न छड्डेइ ।।२५।। गच्छन् पथि पशुपालः, प्राह मणे ! छागिका इमा अधुना । विक्किणिय किणिय घणसारमाइ काहामि तुह पूयं ।।२६।। मम चिन्तितार्थपूर्त्या, सान्वयसंज्ञो भवेस्त्वमपि भुवने । एव मणिमुल्लवंते-ण तेण भणियं पुणो एयं ।।२७ ।। दूरे ग्रामस्तावन्, मणे ! कथां कथय काञ्चन ममाग्रे । अह न मुणसि तोऽहं तुह, कहेमि निसुणेसु एगग्गो ।।२८।। देवगृहमेकहस्तं, चतुर्भुजो वसति तत्र देवस्तु । इय पुणरुत्तं वुत्तो, वि जंपए जाव नेव मणि ।।२९।। तावदुवाच स रुष्टो, यदि हुङ्कतिमात्रमपि न मे दत्से । ता चिंतियऽत्थसंपा-यणम्मि तुह केरिसी आसा ? ।।३०।। तञ्चिन्तामणिरिति ते, नाम मृषा सत्यमेव यदि वेदम् । जं तुह संपत्तीए, वि न मह फिट्टइ मणे ! चिंता ।।३१।। किञ्च क्षणमपि योऽहं, रब्बातविना नहि स्थातुम् ।। सत्तो सोऽहं कहमिह, उववासतिगेण न मरामि ? ।।३२।। तन्मम मारणहेतोर्वणिजा रे ! वर्णितोऽसि तद्गच्छ । जत्थ न दीससि इय भणिय नंखिओ तेण सो सुमणी ।।३३।।
५६
वैराग्यशतकम्