SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गाथा - अथिरेण थिरो समले-ण, निम्मलो परवसेण साहीणो । देहेण जइ विढप्पइ, धम्मो ता किं न पजत्तं ? ॥९४।। व्याख्या - रे जीव ! अस्थिरेण' अशाश्वतेन देहेन यदि 'स्थिरः' परलोकानुगामी, धर्म उपाय॑ते तदा किं न पर्याप्तं ?' किं न परिपूर्ण ?-किं न सम्पन्नमित्यर्थः, तथा 'समलेन' पुरीषप्रश्रवादिपूर्णेन देहेन निर्मलो' निर्दोषो धर्मो यद्ययंते तदा किं न पर्याप्तं ?, तथा परवशेन' रोगाद्यायत्तेन देहेन यदि ‘स्वाधीनः' स्वात्मायत्तो धर्मोऽयंते तदा किं न पर्याप्तम् ? ।।१४।। गाथा - जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणं पि ।।१५।। व्याख्या - 'यथा' येन प्रकारेण 'चिन्तामणिरत्न' प्रतीतं ‘सुलभं' सुप्रापं 'न हु' नैव 'भवति' जायते 'तुच्छविभवानां' तुच्छः-स्वल्पो विभवः-कारणे कार्योपचाराद्विभवकारणं पुण्यं येषां ते तुच्छविभवाः-स्वल्पपुण्या इत्यर्थस्तेषां, तथाविधपशुपालवत्, तथा 'गुणा' अक्षुद्रतादयस्तेषां विशेषेण 'भवनं' सत्ता गुणविभवो, अथवा गुणा एव विभवो' विभूतिर्गुणविभवस्तेन 'वर्जितानां' रहितानां ‘जीवानां' पञ्चेन्द्रियप्राणिनामुक्तं च"प्राणा द्वित्रिचतुः प्रोक्ता, भूतानि तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः ।।१।।" अपि शब्दस्य वक्ष्यमाणस्येह संबन्धादेवं भावना कार्या एकेन्द्रियविकलेन्द्रियाणां तावद्धर्मप्राप्तिर्नाऽस्ति, पञ्चेन्द्रियजीवानामपि तद्योग्यताहेतुगुणसामग्रीविकलानां 'तथा' तेन प्रकारेण धर्मरत्नं सुलभं न भवतीति प्रकृतसंबन्ध इति, पूर्वसूचितपशुपाल-दृष्टान्तश्चाऽयं "बहुविबुधजनोपेतं, हरिरक्षितमप्सरः शतसमेतम् । इह अस्थि हत्थिणपुरं, पुरं पुरन्दरपुरुव्व वरं ।।१।। तत्र श्रेष्ठिगरिष्ठः, पुन्नागो नागदेवनामाऽऽसीत् । निम्मलसीलगुणधरा, वसुंधरा रोहिणी तस्स ।।२।। तत्तनयो विनयोज्ज्वल-मतिविभवभरो बभूव जयदेवः । दक्खो रयणपरिक्खं, सिक्खइ सो बारससमाओ ।।३।। ५४ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy